SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [साधनः] राधं (१३०४) - 'साधंट संसिद्धौ' (१३०५) साध् । साध्नुवन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । साधयतीति साधनः । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिगलुक् । [वर्धनः ] 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्धमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । वर्धयतीति वर्धनः । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । [शोभनः ] 'शुभि दीप्तौ' (९४७) शुभ् । शोभमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । शोभयतीति शोभनः । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । [रोचनः] 'रुचि अभिप्रीत्यां च' (९३८) रुच् । रोचमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । रोचयतीति रोचनः । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । [सहनः ] 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सह । सहते = सहनः । अनेन अनप्र० । [रमणः] 'रमिं क्रीडायाम्' (९८९) रम् । रमते = रमणः । अनेन अनप्र० । णत्वम् । [दमनः] शमू (१२३०)-'दमूच् उपशमे' (१२३१) दम् । दाम्यतीति दमनः । अनेन अनप्र० । रोचनः] 'रुचि अभिप्रीत्यां च' (९३८) रुच् । रोचते = रोचनः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ। [विरोचनः] वि 'रुचि अभिप्रीत्यां च' (९३८) रुच् । विशेषेण रोचते = विरोचनः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [विकर्तनः ] कृतैत् छेदने (१३२५) कृत्, विपूर्व० । विकृन्ततीति विकर्तनः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [तपनः ] 'तपं संतापे' (३३३) तप् । तपति जगतीमिति तपनः = सूर्यः । अनेन अनप्र० । [प्रतर्दनः] 'उतृदृपी हिंसा-ऽनादरयोः' (१४८१) तृद्, प्रपूर्व० । प्रतृणत्तीति प्रतर्दनः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [ दहनः ] 'दहं भस्मीकरणे' (५५२) दह् । दहति सर्वं वस्तु इति दहनोऽग्निः । अनेन अनप्र० । [यवनः ] 'युक् मिश्रणे' (१०८०) यु । यौतीति यवनः । अनेन अनप्र०,। 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [पवनः ] 'पूङ् पवने' (६००) पू । 'पूगश् पवने' (१५१८) प । पवते-पनातीति वा पवनः । अनेन अनप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [लवणः ] 'लूग्श् छेदने' (१५१९) लू । लुनातीति लवणः । अनेन अनप्र० । 'नामिनो गुणोऽक्ङिति' (४।३१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । निपातनाण्णत्वम् । ॥ इदमुदाहरणं बृहवृत्तौ नास्ति । Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy