SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ सेवः ] 'षिवूच् उतौ' (१९६४) षिव् । 'षः सोऽष्ट्यै-ष्ठिव ष्वष्कः' (२।३।९८) सिव् । सीव्यतीति सेवः । अनेन अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अच्प्र० ३४ [ देवः ] 'दिवूच् क्रीडा - जयेच्छा - पणि-द्युति-स्तुति - गतिषु' (१९४४) दिव् । दीव्यतीति देवः । अनेन अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४|३|४) गु० ए । [मेथ: ] 'मेशृग् सङ्गमे च' (९०२) मेथ् । मेथतीति मेथः । अनेन अच्प्र० अ । [मेष: ] जिषू (५२२) - विषू (५२३) 'मिषू सेचने (५२४) मिष् । मेषतीति मेषः । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [मेघः] 'मिहं सेचने' (५५१) मिह् । मेहति = सिञ्चति सर्वपदार्थान् इति मेघः । अनेन अच्प्र० अ । 'न्यङ्कूद्ग - मेघाऽऽदय:' ( ४|१|११२) मेघनिपातः । [ देह: ] 'दिहींक् लेपे' (११२८) दिह । देग्धीति देहः । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य' (४|३|४) गु० ए । + [ आरोहः ] 'रुहं जन्मनि' (९८८) रुह, आङ्पूर्व० । आरोहतीति । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [ न्यग्रोधः ] न्यग् रोहतीति न्यग्रोधः । अनेन अच्प्र० । 'वीरुत् न्यग्रोधौ' (४।१।१२१) ह० ध० निपात्यते । [कोपः ] 'कुपच् क्रोधे' (१९९१) कुप् । कुप्यतीति कोप: । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य ' ( ४ ३ ४ ) गु० ओ । [ गोपः ] 'गुपच् व्याकुलत्वे' (१९९२) गुप् । गुप्यतीति गोपः । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [ सर्प: ] 'सृप्लूं गतौ' (३४१) सृप् । सर्पतीति सर्पः । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [नर्त: ] 'नृतैच् नर्त्तने' (१९५२) नृत् । नृत्यतीति नर्तः । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य ' ( ४ | ३ | ४ ) गु० अर् । [ दर्श: ] 'दृशं प्रेक्षणे' ( ४९५ ) दृश् । पश्यतीति दर्शः । अनेन अच्प्र० अ । 'लघोरुपान्त्यस्य' (४|३|४) गु० अर् । - एषु नाम्युपान्त्यलक्षणं कं दृशेस्तु वा शं बाधते । [ श्वपचः ] श्वन् - पच् । श्वानं पचतीति । अनेन अच्प्र० अ । [ पारापतः ] पारं तटमापततीति आगच्छतीति पारापतः । अनेन अच्प्र० अ । + - [कद्वदः ] कु 'वद व्यक्तायां वाचि' (९९८) वद् । कुत्सितं वदतीति कद्वदः । अनेन अच्प्र० अ । 'रथ-वदे (३।२।१३१) कु०क० भवति । बृहद्वृत्तौ - प्ररोह: । फ्र श० म० न्या० "गुपौ रक्षणे" गोपायतीति । Jain Education International -- - For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy