SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [त्वद्गृह्यः ] गृह्यते = गृह्यः । तव गृह्यः = त्वद्गृह्यः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः । [मद्गृह्यः ] गृह्यते = गृह्यः । मम गृह्यः = मद्गृह्यः । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः । ["गुणगृह्या वचने विपश्चितः" (किराते)] गुणेषु गृह्या = गुणगृह्याः । [ग्राह्यं वचः] गृह्यते = ग्राह्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) ध्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । वचस् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ॥छ।। भृगोऽसंज्ञायाम् ॥ ५।१।४५ ॥ [ भृगः] भृग् पञ्चमी ङसि । [असंज्ञायाम् ] न संज्ञा = असंज्ञा, तस्याम् । [भृत्यः] 'टुडु,ग्क् पोषणे च' (११४०) भृ । भ्रियते = भृत्यः । अनेन क्यप्प्र० → य । 'हुस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः, पोष्य इत्यर्थः । [भार्यो नाम क्षत्रियः] भ्रियते = भार्यः । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । [भार्या पत्नी ] भ्रियते = भार्या । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । 'आत्' (२।४।१८) आप्प्र० → आ । ननु च संज्ञायामपि स्त्रियां 'भृगो नाम्नि' (५।३।९८) इति क्यबस्ति यथा [कुमारभृत्या] कुमार-भृ । ॐकुमारेण भ्रियते = कुमारभृत्या । 'भृगो नाम्नि' (५।३।९८) क्यप्र० → य । 'हुस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । नैवं तस्य क्यपो भावे स्त्रियां विधानादित्यर्थः ॥छ। समो वा ॥ ५।१।४६ ॥ [समः] सम् पञ्चमी ङसि । [वा] वा प्रथमा सि । [संभृत्यः, संभार्यः] सम् 'टुडु,ग्क् पोषणे च' (११४०) भृ । संभ्रियते । अनेन क्यप्प्र० → य । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । पक्षे-'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० आर् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ। ते कृत्याः ॥ ५।१।४७ ॥ [ते] तद् प्रथमा जस् । 'आ द्वेरः' (२२११४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'जस इ:' (१।४।९) जस्० → इ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए। ॐ श० म० न्या० - कुमारस्य भरणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy