SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ जि-विपू-न्यो हलि-मुञ्ज-कल्के ॥ ५।१।४३ ॥ [जिविपून्यः] पूश्च नीश्च = पून्यौ, विपूर्वी पून्यौ = विपून्यौ, जिश्च विपून्यौ च = जिविपूनी, तस्मात् । [हलिमुञ्जकल्के ] हलिश्च मुञ्जश्च कल्कश्च = हलिमुञ्जकल्कम्, तस्मिन् । [जित्या जित्यो वा हलिः] 'जिं अभिभवे' (८) जि । जीयते निपुणेनेति जित्यः । अनेन क्यप्र० → य । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । महद्धलं हलिः । [विपूयो मुञ्जः] 'पूङ् पवने' (६००) पू । 'पूग्श् पवने' (१५१८) पू वा । विपवितव्यः = विपूयः । अनेन क्यप्र० → य । मुञ्जस्तृणविशेषः । [विनीयः कल्कः ] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेो नः' (२।३।९७) नी, विपूर्व० । विनेतव्यस्तैलादिना मध्ये इति विनीयः । अनेन क्यप्र० → य । तैलादिना कात्मनो मध्ये विनेतव्यः, कोऽर्थः ? प्रापयितव्यः, यद्वा मध्ये वर्तमानेन तैलादिना उत्कर्ष विनेतव्यः । कल्कस्त्रिफलादीनाम् । [जेयम्] जीयते = जेयम् । 'य एच्चाऽऽत:' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३.१) गु० ए । सिअम् । [विपव्यम् ] विपूयते । 'य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । सि-अम् । [विनेयम्] विनीयते । 'य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । सि-अम् ॥छ।। पदा-ऽस्वैरि-बाह्या-पक्ष्ये ग्रहः ॥५।१।४४ ॥ [पदाऽस्वैरिबाह्यापक्ष्ये ] पदश्च अस्वैरी च बाह्या च पक्ष्यश्च = पदाऽस्वैरिबाह्यापक्ष्यम्, तस्मिन् । [ग्रहः ] ग्रह पञ्चमी ङसि । विभक्त्यन्तं पदम् । अस्वैरी = परतन्त्रः । बाह्या = बहिर्भवा । पक्ष्यो वर्गः । घ्यणोऽपवादः । [प्रगृह्यं पदम् ] 'ग्रहीश् उपादाने' (१५१७) ग्रह, प्रपूर्व० । प्रगृह्यते-विशेषेण ज्ञायते = प्रगृह्यम् । अनेन क्यप्प्र० → य । 'ग्रह-व्रस्व-भ्रस्ज-प्रच्छ:' (४।१।८४) वृत् ग्र० → गृ० । [अवगृह्यं पदम् ] ग्रह, अवपूर्व० । अवगृह्यते - नानावयवसात् क्रियते = अवगृह्यम् । अनेन क्यप्प्र० → य । 'ग्रह-व्रस्व-भ्रस्ज०' (४।१।८४) यवृत् ग्र० → गृ० । [गृह्याः कामिनः] गृह्यन्ते = गृह्याः । अनेन क्यप्प्र० → य । 'ग्रह-व्रस्च-भ्रस्ज-प्रच्छ:' (४११८४) वृत् ग्र० → गृ० प्रथमा जस् । कामिनः = रागादिपरतन्त्रा इत्यर्थः । [ग्रामगृह्या श्रेणिः ] गृह्यते = गृह्या । अनेन क्यप्प्र० → य । ग्रामात् गृह्या = ग्रामगृह्या श्रेणिः । 'आत्' (२।४।१८) आप्प्र० → आ । बाह्येत्यर्थः । [नगरगृह्या सेना ] नगरात् गृह्या = नगरगृह्या । 'आत्' (२।४।१८) आप्प्र० → आ । सेना, बाह्येत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy