SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [वृध्यम् ] 'वृधूङ् वृद्धौ' (९५७) वृध् । वृध्यते = वृध्यम् । अनेन क्यप्प्र० → य । सि-अम् । [गृध्यम् ] 'गृधूच् अभिकाङ्क्षायाम्' (११८७) गृध् । गृध्यते = गृध्यम् । अनेन क्यप्प्र० → य । सि-अम् । [शृध्यम् ] 'शृधूङ् शब्दकुत्सायाम्' (९५८) शृध् । शृध्यते = शृध्यम् । अनेन क्यप्प्र० → य । सि-अम् । [कल्प्यम् ] 'कृपू(पौ)ङ् सामर्थ्य' (९५९) कृप् । कृप्यते = कल्प्यम् । 'शकि-तकि-चति-यति-शसि-सहि-यजिभजि-पवर्गात्' (५।१।२९) यप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'ऋ-र लु-लं कृपोऽकृपीटादिषु' (२।३।९९) र० → ल० । सि-अम् । 'समानादमोऽतः' (१।४।४६) अलुक् । - [चर्त्यम् ] 'तैत् हिंसा-ग्रन्थयोः' (१३६९) नृत् । नृत्यते = चर्त्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । सि-अम् । 'समानादमोऽतः' (१।४।४६) अलुक् । [अय॑म् ] 'रु(ऋ)चत् स्तुतौ' (१३४०) ऋच् । ऋच्यते = अय॑म् । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । ‘लघोरुपान्त्यस्य' (४।३।४) गु० अर् । सि-अम् । 'समानादमोऽतः' (१।४।४६) अलुक् ॥छ।। कृ-वृषि-मृजि-शसि-गुहि-दुहि-जपो वा ॥ ५।१।४२ ॥ __ [कृवृषिमृजिशंसिगुहिदुहिजपः ] कृश्च वृषिश्च मृजिश्च शंसिश्च गुहिश्च दुहिश्च जप् च = कृवृषिमृजिशंसिगुहिदुहिजप्, तस्मात् । [वा] वा प्रथमा सि । [कृत्यम्, कार्यम् ] 'डुकंग करणे' (८८८) कृ । क्रियते । अनेन क्यप्प्र० → य । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । पक्षे–'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० → य । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । [वृष्यम्, वर्ण्यम् ] जिषू (५२२)-विषू (५२३) - मिषू (५२४) - निषू (५२५) - पृषू (५२६) - 'वृषू सेचने' (५२७) वृष् । वृष्यते । अनेन क्यप्प्र० → य । पक्षे-घ्यणप्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [मृज्यम्, मार्यम् ] 'मृजौक् शुद्धौ' (१०९७) मृज् । मृज्यते = मृज्यम् । अनेन क्यप्प्र० → य । पक्षे-घ्यण्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'मृजोऽस्य वृद्धिः' (४।३।४२) वृ० आ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० । [शस्यम्, शंस्यम् ] 'शंसू स्तुतौ च' (५५०) शंस् । शस्यते । अनेन क्यप्प्र० → य । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । पक्षे-'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यणप्र० → य । . [गुह्यम्, गोह्यम् ] 'गुहौग् संवरणे' (९३५) गुह् । गुह्यते । अनेन क्यप्प्र० → य । पक्षे-'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [ दुह्यम्, दोह्यम् ] 'दुहीक क्षरणे' (११२७) दुह् । दुह्यते । अनेन क्यप्प्र० → य । पक्षे-'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यणप्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [जप्यम्, जाप्यम्] 'जप मानसे च' (३३८) जप् । जप्यते । अनेन क्यप्प्र० → य । पक्षे-'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् ॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy