________________
पञ्चमाध्यायस्य प्रथमः पादः॥
२७
[भव्यम् ] भूयते । ‘य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । सि-अम् ।
[उपहतिः] उपहननम् । 'वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'यमि-रमि-नमि-गमि-हनि०' (४।२।५५) नलुक् ।
[प्रभव्यम् ] प्रभूयते । 'य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । सि-अम् |छ।।
अग्निचित्या ॥ ५।११३७ ॥ [अग्निचित्या ] अग्निचित्या प्रथमा सि । अखण्डमिदम् । 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् ।
[अग्निचित्या ] अग्नि 'चिंग्ट् चयने' (१२९०) चि । अग्नेश्चयनम् = उपचयनमित्यर्थः । अनेन क्यप्प्र० → य । 'हुस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
खेय-मृषोद्ये ॥ ५।१।३८ ॥ [खेयमृषोद्ये ] खेयं च मृषोद्यं च = खेयमृषोद्ये । औ । 'औरी:' (१।४।५६) औ० → ई० । अनुपसर्गादिति नाम्न इति च निवृत्तम् । खनेय॑णोऽपवादः क्यप् । [खेयम् ] 'खनूग् अवदारणे' (९१३) खन् । खन्यते । अनेन क्यप्प्र० - खेयनिपातः । [निखेयम् ] निखन्यते । अनेन क्यप्प्र० - खेयनिपातः । [ उत्खेयम् ] उत्खन्यते । अनेन क्यप्प्र० - खेयनिपातः । पक्षे 'वयोपसर्या०' (५।११३२) इत्यादिना ये प्राप्ते नित्यं क्यप् ।
[ मृषोद्यम् ] मृषा 'वद व्यक्तायां वाचि' (९९८) वद् । मृषोद्यते । अनेन मृषोद्यनिपात्यते । सि-अम् । नात्र भाव एवेति योगविभागः ॥छ।
कुप्य-भिद्योद्ध्य-सिध्य-तिष्य-पुष्य-युग्या-ऽऽज्य-सूर्यं नाम्नि ॥ ५।१।३९ ॥ [कुप्यभिद्योद्ध्यसिध्यतिष्यपुष्ययुग्याऽऽज्यसूर्यम् ] कुप्यं च भिद्यश्च उद्ध्यश्च सिध्यश्च तिष्यश्च पुष्यश्च युग्यश्च आज्यश्च सूर्यश्च = कुप्यभिद्योद्ध्यसिध्यतिष्यपुष्ययुग्याऽऽज्यसूर्यम् ।
[नाम्नि] नामन् सप्तमी ङि ।
[कुप्यं धनम्, + गोप्यमन्यत् ] 'गुपौ रक्षणे' (३३२) गुप् । गोपाय्यते तदिति । अनेन क्यप्र० → य - गोः कत्वं च निपात्यते । सि-अम्, धनम् । अन्यत्र 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । सि-अम् ।
P. खेयश्च ।
___ + श० म० न्यासानुसन्धाने-गोपाय्यमन्यत्- अत्र स्वरान्तलक्षणो य: पूर्वाकारस्य लोपश्च । आयप्रत्ययस्य वैकल्पिकत्वेन 'शकि-तकि०' (५।१।२९) इति पवर्गान्तलक्षणे ये गोप्यमित्यपि भवति । देवादिकस्यापि गोप्यमिति भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org