SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [सत्योद्यम्, सत्यवद्यम् ] सत्य-वद् । सत्येन उद्यते । अनेन क्यप्र० - यश्च । यत्र क्यप्र० तत्र 'यजादि-वः किति' (४।११७९) वृत् व० → उ० । सि-अम् । [वाद्यम्] उद्यत इति वाद्यम् = आतोद्यमित्यर्थः । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [प्रवाद्यम् ] प्रकर्षेण उद्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यणप्र० → य । ‘णिति' (४।३५०) उपान्त्यवृद्धिः आ । सि-अम् । [अनुवाद्यम् ] अनु = पश्चात् उद्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । ककारः कित्कार्यार्थः । पकार उत्तरत्र तागमार्थः ॥छ।। हत्या-भूयं भावे ॥ ५।१।३६ ॥ [हत्याभूयम् ] हत्या च भूयश्च = हत्याभूयम् । [भावे] भाव सप्तमी ङि। [ ब्रह्महत्या ] 'हनंक हिंसा-गत्योः' (११००) हन् । हननं = वधः । 'हनो वा वध् च' (५।३।४६) अल्प्र० → अ-वध् आदेशश्च । ब्रह्मन् - हन् । ब्रह्मणो वधः = ब्रह्महत्या । अनेन क्यपप्र० → य - नस्य तकारश्च निपात्यते । 'आत्' (२।४।१८) आप्प्र० → आ । [भ्रूणहत्या ] भ्रूणस्य वधः = भ्रूणहत्या । अनेन क्यप्प्र० → य - नस्य तकारश्च । 'आत्' (२।४।१८) आप्प्र० → आ । [दरिद्रहत्या ] दरिद्रस्य वधः = दरिद्रहत्या । अनेन क्यप्प्र० → य - नस्य तकारश्च । 'आत्' (२।४।१८) आप्प्र० → आ । [श्वहत्या ] शुनो वधः । अनेन क्यप्प्र० → य - नस्य तकारश्च निपात्यते । ‘आत्' (२।४।१८) आप्प्र० → आ । [ ब्रह्मभूयं गतः ] ब्रह्मन् 'भू सत्तायाम्' (१) भू । ब्रह्मणो भवनम् । अनेन क्यप्प्र० → य । द्वितीया अम् । गत प्रथमा सि । ब्रह्मत्वं गत इत्यर्थः । [देवभूयं गतः] देव 'भू सत्तायाम्' (१) भू । देवस्य भवनम् । अनेन क्यप्प्र० → य । 'द्वितीया अम् । गत प्रथमा सि । देवत्वं गत इत्यर्थः । [श्वघात्या वृषली] श्वन् - हन् । अश्वा हन्यतेऽनया । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णिति घात्' (४।३।१००) हन्० → घात्० । 'आत्' (२।४।१८) आप्प्र० → आ । [हतिः] हननं = हतिः । 'साति-हेति०' (५।३।९४) इति बाधनार्थं 'श्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादे(टि क्ङिति' (४।२।५५) नलुक्। [घातः] हननं = घातः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ। 'ञ्णिति घात्' (४।३।१००) घात् । 卐 श० म० न्या० - शुना हन्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy