SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । + [ हव्यम् ] 'हुंक् दाना - ऽदनयोः ' (११३०) हु । हूयते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० ओ । 'य्यक्ये' (११२।२५) अव् । २२ [लव्यम् ] 'लूग्श् छेदने' (१५१९) लू । लूयते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति ' ( ४|३|१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । [ भव्यम् ] 'भू सत्तायाम्' (१) भू । भूयते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति ' ( ४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । [ देयम् ] 'डुदांग्क् दाने' (१९३८) दा । दीयते । अनेन यप्र० आ० ए० । सि- अम् । 'समानादमोऽतः ' ( १|४|४६ ) अलुक् । [ धेयम् ] 'डुधांग्क् धारणे च' (१९३९) धा । धीयते । अनेन यप्र० आ० ए० । सि अम् । 'समानादमोऽतः' (१।४।४६ ) अलुक् ॥छ शकि- तकि- चति-यति- शसि - सहि-यजि - भजि-पवर्गात् ॥ ५/१/२९ ॥ [ शकितकिचतियतिशसिसहियजिभजिपवर्गात् ] शक्चि तक्चि चतिश्च यतिश्च शसिश्च सहिश्च यजिश्च भजिश्च पवर्गश्च = शकितकिचतियतिशसिसहियजिभजिपवर्गम्, तस्मात् । [ शक्यम् ] 'शक्लृट् शक्तौ' (१३००) शक् । शक्यते । अनेन यप्र० । सि-अम् । [तक्यम् ] 'तक हसने' (५१) तक् । तक्यते । अनेन यप्र० । सि-अम् । [चत्यम्] 'चतेग् याचने' (८९९) चत् । चत्यते । अनेन यप्र० । सि-अम् । [यत्यम् ] 'यतैङ् प्रयत्ने' (७११) यत् । यत्यते । अनेन यप्र० । सि-अम् । [ शस्यम् ] 'शसू हिंसायाम् ' ( ५४९) शस् । शस्यते । अनेन यप्र० । सि-अम् । [सह्यम्] 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै- ष्ठिव - ष्वष्कः' (२२३।९८) सह । सह्यते । अनेन यप्र० । सि-अम् । [यज्यम् ] 'यजीं देवपूजा-सङ्गतिकरण- दानेषु' (९९१) यज् । इज्यते । अनेन यप्र० । सि-अम् । [ भज्यम् ] 'भजीं सेवायाम्' (८९५) भज् । भज्यते । अनेन यप्र० । सि-अम् । [ तप्यम् ] 'तपं संतापे' (३३३) तप् । तप्यते । अनेन यप्र० । सि- अम् । [लभ्यम् ] 'डुलभिष् प्राप्तौ ' ( ७८६) लभ् । लभ्यते । अनेन यप्र० । सि-अम् । [ गम्यम् ] अम (३९२) - द्रम (३९३) हम्म (३९४ ) 'गम्यते । अनेन यप्र० । सि-अम् । + - [ याज्यम्] यज् । इज्यते । बाहुलकात् 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) घ्यण्प्र०य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । इदमुदाहरणं बृहद्वृत्तौ नास्ति । Jain Education International मी (३९५) 'गम्लृ गतौ' (३९६) गम् । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy