SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः॥ ...........२१ तव्या-ऽनीयौ ॥ ५।२७ ॥ [तव्याऽनीयौ] तव्यश्च अनीयश्च = तव्याऽनीयौ । [शयितव्यम् ] 'शीक् स्वप्ने' (११०५) शी । शेते । अनेन तव्यप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्', (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । सि-अम् । [शयनीयम् ] शी । शेते । अनेन अनीयप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । सि-अम् । [वस्तव्यम् ] 'वसं निवासे' (९९९) वस् । उष्यते । अनेन तव्यप्र० । सि-अम् । [वसनीयम्] वस् । उष्यते । अनेन अनीयप्र० । सि-अम् । [कर्तव्यम् ] 'डुइंग् करणे' (८८८) कृ । क्रियत इति । अनेन तव्यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [करणीयं भवता] कृ । क्रियत इति । अनेन अनीयप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । एवमग्रेऽपि ॥छ। य एच्चाऽऽतः ॥ ५१।२८ ॥ [यः] य प्रथमा सि । [एत् ] एत् प्रथमा सि । [च] च प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [आतः] आत् षष्ठी ङस् । [दित्स्यम्] 'डुदांग्क् दाने' (११३८) दा । दीयते । अनेन यप्र० । 'अस् च लौल्ये' (४।३।११५) सोऽन्तः(?)। 'मि-मी-मा-दामित् स्वरस्य' (४।१।२०) आ० → इत्० । [धित्स्यम्] #'डुधांग्क् धारणे च' (११३९) धा । धीयते । अनेन यप्र० । 'अस् च लौल्ये' (४।३।११५) सोऽन्तः(?) । 'मि-मी-मा-दामित् स्वरस्य' (४।१।२०) आ० → इत् । [चेयम् ] 'चिंग्ट् चयने' (१२९०) चि । चीयते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । [जेयम् ] 'जिं अभिभवे' (८) जि । जीयते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए। [नेयम्] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नीयते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए। [शेयम् ] 'शीङ् स्वप्ने' (११०५) शी । शय्यते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । [नव्यम् ] 'णुक् स्तुतौ' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु । नूयते । अनेन यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'य्यक्ये' (१।२।२५) अव् । 卐 श० म० न्या० - दातुं धातुं वा इच्छेति सनि अनुस्वारेत्त्वादिडभावे 'मि-मी-मा-दामित् स्वरस्य' (४।१।२०) इति स्वरस्य इत् इत्यादेशे द्वित्वाभावे च दित्स-धित्स इति धातू, ततः स्वरान्तत्वादनेन ये 'अतः' (४।३।८२) इत्यकारलोपे दित्स्यम्, धित्स्यमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy