________________
पञ्चमाध्यायस्य प्रथमः पादः ॥
[कुण्डपाय्यः क्रतुः, कुण्डपानोऽन्यः] कुण्डैः पीयते सोमोऽस्मिन्, कुण्डैः पीयत इति वा । अनेन कुण्डपाय्यनिपातः । ससोमको हि यागः क्रतुरुच्यते, वल्लीरसो यत्र यागे पीयते इति भावार्थः । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन ।
[राजसूयः क्रतुः] 'पुंग्ट् अभिषवे' (१२८६) षु । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु, राजन्पूर्व० । राज्ञा(जा) सूयतेऽस्मिन्, राज्ञा वा सोतव्यः । अनेन राजसूयनिपातः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३५३) विसर्गः ॥छ।।
प्रणाय्यो निष्कामा-ऽसंमते ॥ ५।१।२३ ॥
[प्रणाय्यः ] प्रणाय्य प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[निष्कामाऽसंमते] निर्गतः कामोऽस्मात् सः = निष्कामः, निष्कामश्च असंमतश्च = निष्कामाऽसंमतम्, तस्मिन् ।
[प्रणाय्योऽन्तेवासी] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७)नी, प्रपूर्व० । प्रणीयते । अनेन घ्यणप्र० → य, आग्निपातः । अन्ते = गुरूणां समीपे वसतीत्येवंशीलम् । 'अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । प्रथमा सि । 'इन् - हन् - पूषाय॑म्णः शिस्योः' (१।४।८७) दीर्घः । 'दीर्घङ्-याब्' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।११९१) नलुक् । विषयेष्वनभिलाष इत्यर्थः ।
[प्रणाय्यश्चौर चो)रः] प्रणाय्यः पूर्ववत्, चोरः । सर्वलोकासंमत इत्यर्थः ।
[प्रणेयः] प्रणीयते । 'य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।।
धाय्या-पाय्य-सान्नाय्य-निकाय्यमृङ्-मान-हवि-निवासे ॥ ५।१।२४ ॥ [धाय्यापाय्यसान्नाय्यनिकाय्यम् ] धाय्या च पाय्यं च सान्नाय्यं च निकाय्यश्च = धाय्यापाय्यसान्नाय्यनिकाय्यम् । [ऋकमानहविर्निवासे] ऋक् च मानं च हविश्च निवासश्च = ऋक्मानहविर्निवासम्, तस्मिन् । निपातनादेव सर्वत्रायादेशः ।
[धाय्या ऋक्, अन्यत्र धेया] 'डुधांग्क् धारणे च' (११३९) धा । धीयते समिदग्नावनयेति । अनेन घ्यणप्र० → य । 'आत ऐः कृौ ' (४।३।५३) आ → ऐ, आयादेशश्च निपात्यते । 'आत्' (२।४।१८) आप्प्र० → आ । ऋक् प्रथमा सि । अन्यत्र 'य एच्चाऽऽतः' (५।१।२८) यप्र०, आ० → ए० ।
[पाय्यं मानम्, मेयमन्यत्] 'मांङ्क् मान-शब्दयोः' (११३७) मा । मीयते येन तन्मानम् । अनट्प्र० → अन । मीयतेऽनेनेति । अनेन मस्य पा-आय च निपातः । सि-अम् । अन्यत्र 'य एच्चाऽऽतः' (५।१।२८) यप्र०, आ० → ए० ।
- [सान्नायं हविः, संनेयमन्यत् ] सम्-'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७)नी । संनीयते । अनेन समो दीर्घत्वं-घ्यणप्र० → य । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । आय् च निपात्यते । म्नां धुड्वर्गेऽन्त्योऽपदान्ते (१।३।३९) म० → न० । सि-अम् । अन्यत्र ‘य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org