SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १८ [ डेप्यम् ] 'डिपत् क्षेपे' (१४५८) डिप् । डिप्यते ( ४ | ३ | ४) गु० ए । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । डेप्यम् । अनेन घ्यण्प्र०य । 'लघोरुपान्त्यस्य' = [ दाभ्यम् ] दभिः सौत्रो बन्धने वर्त्तते । दभ्यते । अनेन घ्यण्प्र० य । 'ञ्णिति' ( ४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् । [ अवदाभ्यम् ] अवदभ्यते = अवदाभ्यम् । अनेन घ्यण्प्र०य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् । [आचाम्यम् ] 'चमू अदने' (३८०) चम्, आङ्पूर्व० । आचम्यते = आचाम्यम् । अनेन घ्यण्प्र० → य । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः' (१।४।४६ ) अलुक् । [आनाम्यम् ] णमं प्रह्वत्वे (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम्, आङ्पूर्व० । आनम्यते = आनाम्यम् । अनेन घ्यण्प्र०य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । सि-अम् । 'समानादमोऽतः ' (१।४।४६ ) अलुक् । नमिरत्र ण्यर्थः सकर्मकः, अकर्मका अपि हि धातवो ण्यर्थे वर्त्तमानाः सकर्मका भवन्ति, यथा-नेमिं नमन्ति । नामयन्ति चक्रधारामित्यर्थः । डिपेः कुटादित्वात् पवर्गद्वारेण ये गुणो न लभ्यते इति घ्यण् विधीयते ॥ वाssधारेऽमावस्या || ५|१|२१ ॥ [वा ] वा प्रथमा सि । [ आधारे ] आधार सप्तमी ङि । [ अमावस्या ] अमावस्या प्रथमा सि । [ अमावस्या, अमावास्या ] अमा 'वसं निवासे' (९९९) वस् । अमाशब्दः सहार्थः, सह वसतोऽस्यां सूर्याचन्द्रमसाविति । अनेन घ्यण्प्र० । पक्षे धातोरेव ह्रस्वनिपातनं च । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'आत्' (२।४।१८) आप्प्र० आ । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् । रूढ्या तिथिविशेषः । पक्षे यमकृत्वा ह्रस्वनिपातनम् । 'अश्च वाऽमावास्यायाः' (६|३|१०४) इत्यत्रैकदेशविकृतस्याऽनन्यत्वादमावास्याशब्देन अमावस्याशब्दस्यापि ग्रहणार्थम् ॥छ । Jain Education International संचाय्य-कुण्डपाय्य- राजसूयं क्रतौ ॥ ५।१।२२ ॥ [ संचाय्यकुण्डपाय्यराजसूयम् ] संचाय्यश्च कुण्डपाय्यश्च राजसूयश्च = [ ऋतौ ] क्रतु सप्तमी ङि । आधारे कर्मणि वा, निपातनादेवायादेशदीर्घत्वे अपि भवतः । [ संचाय्यः क्रतुः संचेयोऽन्यः ] 'चिंग्ट् चयने' (१२९०) चि, सम्पूर्व० । संचीयते सोमोऽस्मिन् संचीयते वाऽसाविति । अनेन संचाय्यनिपातः । य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । संचाय्यकुण्डपाय्यराजसूयम् । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy