________________
पञ्चमाध्यायस्य चतुर्थः पादः॥
३११
[पूर्वं भोज, भुक्त्वा व्रजति] भोजनं पूर्व = भोजम् । अनेन ख्णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ। प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । एवम्-भुक्त्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१२८६) ज० → ग० । 'अघोषे'० (१३५०) ग० → क० ।
एवमग्रेऽपि, पूर्व-प्रथमसाहचर्यात् अग्रेशब्दः कालवाची अव्ययं 'क्रियाविशेषणात्' (२।२।४१) अम्, एवं प्रथमशब्दादम्, विकल्पपक्षे वर्तमानादयोऽपि । पूर्वादयश्चात्र व्यापारान्तरापेक्षे प्राक्काल्ये, व्रज्यापेक्षे तु क्त्वा-ख्णमाविति नोक्तार्थता, ततश्चायमर्थोऽन्यभोक्तभुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्वं भोजनं कृत्वा व्रजतीत्यर्थः छा।
अन्यथैवं - कथमित्थमः कृगोऽनर्थकात् ॥ ५।४।५० ॥ [अन्यथैवंकथमित्थमः] अन्यथा च एवं च कथम् च इत्थम् च = अन्यथैवंकथमित्थम्, तस्मात् । [कृगः] कृग् पञ्चमी ङसि ।
[अनर्थकात् ] न विद्यतेऽर्थो यस्य सः = अनर्थकस्तस्मात् । 'शेषाद्वा' (७।३।१७५) कच्समासान्तः, अर्थरहित इत्यर्थः ।
[अन्यथाकारं, अन्यथा कृत्वा भुङ्क्ते] अन्यथा करणं = अन्यथाकारम् । अनेन ख्णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर्, भुङ्क्ते ।
[एवंकारं, एवं कृत्वा भुङ्क्ते ] एवं करणं = एवंकारम् । अनेन ख्णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० आर्, भुङ्क्ते ।
[कथंकार, कथं कृत्वा भुङ्क्ते] कथं करणं पूर्व = कथंकारम् । अनेन ख्णम्प्र० → अम् । 'नामिनोऽकलिहलेः' (४।३।५१) वृ० आर्, भुङ्क्ते ।
[इत्थंकारं इत्थं कृत्वा भुङ्क्ते ] इत्थं करणं पूर्वं = इत्थंकारम् । अनेन खणम्प्र० → अम् । 'नामिनोऽकलिहलेः' (४।३।५१) वृ० आर्, भुङ्क्ते ।
पक्षे - अन्यथादि अम् । 'अव्ययस्य' (३।२७) अम्लुप् । करणं पूर्व = कृत्वा । 'प्राक्काले' (५।४।४७) इत्यनेन क्त्वा, एवमुत्तरत्रापि । आनर्थक्यं करोतेरन्यथादिभ्यः पृथगर्थाभावात् ।
[अन्यथा कृत्वा शिरो भुङ्क्ते] अन्यथा । अम् । 'अव्ययस्य' (३।२७) अम्लुप् । करणं पूर्वं = कृत्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । शिरस् द्वि० अम् । 'अनतो लुप्' (१।४।५९) अम्लुप, भुङ्क्ते । अत्रान्यथाशब्दः शिरःप्रकारे करोतेश्च शिरःकर्म, तत्र(न) करोतिना विना गम्यते ॥छा।
यथा-तथादीर्घोत्तरे ॥ ५।४।५१ ॥ [यथातथात् ] यथा च तथा च = यथातथम्, तस्मात् । 'क्लीबे' (२।४।९७) हूस्वत्वम् ।
[ईष्र्योत्तरे] ईj ईर्ष्यार्थाः (४०२) ईष्र्ण्य । ईय॑तीति ईयः । 'अच् (५।१।४९) अच्प्र० । ईर्ण्य उत्तरं = ईष्र्योत्तरम्, तस्मिन् ।
ईर्घ्यश्चेदुत्तरयति-ईर्ष्या कुर्वन् चेदुत्तरं करोतीत्यर्थः ।
[कथं भवान् भोक्ष्यत ? इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये, तथाकारमहं भोक्ष्ये, किं तवाऽनेन ? किं ते मया ?] कथम् । अम् । 'क्रियाविशेषणात्' (२।२।४१) अम् । 'अव्ययस्य' (३।२७) अम्लुप् । भवान् प्रथमा सि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org