________________
३१०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
खणम् चाभीक्ष्ण्ये ॥ ५।४।४८ ॥ [ख्णम् ] ख्णम् प्रथमा सि । 'दीर्घड्याब्'० (१।४।४५) सिलुक् । [च] च प्रथमा सि । [आभीक्ष्ण्ये ] आभीक्ष्ण्य सप्तमी ङि ।
[भोजं भोज, भुक्त्वा भुक्त्वा व्रजति] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । आभीक्ष्ण्यं भोजनं पूर्वं = भोज भोजम् । अनेन ख्णम्प्र० → अम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'प्रथमा सि । 'अव्ययस्य' (३।२१७) सिलुप्, ततो 'भृशा-ऽऽभीक्ष्ण्या'० (७।४।७३) द्विः । एवम्-भुक्त्वा । अनेन क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे'० (१।३५०) ग० → क० । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'भृशाऽऽभीक्ष्ण्या-ऽविच्छेदे'० (७४/७३) द्विः ।
[पायं पायं पीत्वा पीत्वा गच्छति] 'पां पाने' (२) पा । अ(आ)भीक्ष्ण्यं पानं पूर्वं = पायं पायम् । अनेन ख्णमप्र० → अम् । 'आत ऐः कौ ' (४३५३) आ० २ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । एवं-पीत्वा पीत्वा। अनेन क्त्वाप्र० → त्वा । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) ई ।
[अग्रे भोजं भोज, भुक्त्वा भुक्त्वा व्रजति] अग्रे प्रथमा सि । 'अव्ययस्य' (३२१७) सिलुप् । अ(आ) भीक्ष्ण्यं भोजनं पूर्वं = भोजं भोजम् । अनेन ख्णम्प्र० → अम् । एवम्-भुक्त्वा भुक्त्वा । अनेन क्त्वाप्र० → त्वा । 'च-जः कगम्' (२।११८६) ज० → ग० । 'अघोषे'० (१।३।५०) ग० → क० । अत्र क्त्वा-ख्णमोहि स्वादिवत् प्रकृत्यर्थोपाधिद्योतने सामर्थ्य नास्तीत्याभीक्ष्ण्याभिव्यक्तये द्विर्वचनं भवति ।
इह कस्मात् ख्णम् न भवति -
[यदयं पुनः पुनर्भुक्त्वा व्रजति] यदयं पुनः पुनः भोजनं पूर्वं = भुक्त्वा । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'च-जः क-गम्' (२।१८६) ज० → ग० । 'अघोषे'० (१।३।५०) ग० → क०, व्रजति ।
अधीते एव ततः परम्, आभीक्ष्ण्यस्य स्वशब्देन पुनःशब्देनैवोक्तत्वात् । क्त्वापि तर्हि न प्राप्नोति ? मा भूदाभीक्ष्ण्ये, प्राक्काले भविष्यति । वाऽधिकारेणैव पक्षे क्त्वाप्रत्ययस्य सिद्धौ चकारेण तस्य विधानं वर्तमानादिप्रत्ययान्तरनिषेधार्थम् ।
[चोरंकारमाक्रोशति ] चोरस्य करणं पूर्वं = चोरंकारम् । 'शापे व्याप्यात्' (५।४।५२) रुणम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । 'खित्यनव्ययाऽरुषो'० (३।२।१११) मोऽन्तः, आक्रोशति ।
[स्वादुंकारं भुङ्क्ते ] स्वादुं कृत्वा = स्वादुंकारम् । 'स्वाद्वर्थाद् अदीर्घात्' (५।४।५३) खणम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । 'खित्यनव्ययाऽरुषो'० (३।२।१११) मोऽन्तः । खित्त्वमुत्तरार्थम् ।।छ।।
पूर्वा-ऽग्रे-प्रथमे ॥ ५।४।४९ ॥ [पूर्वाऽग्रेप्रथमे ] पूर्वश्च अग्रेश्च प्रथमश्च = पूर्वाऽग्रेप्रथमम्, तस्मिन् । अनाभीक्ष्ण्यार्थं वचनम् । उदाहरणेषु पूर्वाऽग्रे प्रथमेभ्य: 'काला-ऽध्वनो'० (२।२।४२) इत्यादिना द्वितीया ।
बृहद्वृत्तौ - चौरंकारमाक्रोशति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org