SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [सिद्धं खलु] खलु निश्चयेन सिद्धम् । [मा कारि भवता] मा प्रथमा सि । 'अव्ययस्य' (३२१७) सिलुप् । 'डुकंग करणे' (८८८) कृ । अद्यतनी त । भाव-कर्मणोः' (३।४।६८) बिच् → इ - तलोपश्च । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० आर् । भवत् तृतीया टा ॥छा। परा-ऽवरे ॥ ५।४।४५ ॥ [पराऽवरे ] परश्च अवरश्च = पराऽवरम्, तस्मिन् । [अतिक्रम्य नदी पर्वतः] 'क्रमू पादविक्षेपे' (३८५) क्रम्, अतिपूर्व० । अतिक्रमेण = अतिक्रम्य । अनेन क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) क्त्वा० → यप्० । नदी द्वितीया अम् । नद्याः परः पर्वत इत्यर्थः । [बाल्यमतिक्रम्य यौवनम् ] 'अतिक्रम्य' पूर्ववत् । अवरे - [अप्राप्य नदी पर्वतः] न प्र 'आप्लँट् व्याप्तौ' (१३०७) आप् । न प्रापणेन = अप्राप्य । अनेन क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नत्रत्' (३।२।१२५) न० → अ० । नदी द्वितीया अम् । नद्या अर्वाक पर्वत इत्यर्थः । [अप्राप्य यौवनं बाल्यम् ] 'अप्राप्य' पूर्ववत् । नदी-पर्वतयोर्खाल्य-यौवनयोर्वा परावरत्वमात्रं प्रतीयते, अस्ति प्राप्यत इति वा, न द्वितीया क्रियेति तुल्यकर्तृकक्रियान्तराभावात् । 'प्राक्काले' (५।४।४७) इति न सिध्यतीति वचनम् । वाऽधिकाराद् यथाप्राप्तं च - → अ । [नद्यतिक्रमेण पर्वतः] नद्या अतिक्रमणं = नद्यतिक्रमः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० 'अमोऽकम्यमि-चमः' (४।२।२६) न वृद्धिः । [नद्यप्राप्त्या पर्वतः ] नद्या अप्रापणं = नद्यप्राप्तिस्तया । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति, पर्वतः ॥छ।। निमील्यादिमेङस्तुल्यकर्तृके ॥ ५।४।४६ ॥ [निमील्यादिमेङ:] निमीलिरादिर्येषां ते = निमील्यादयः । निमील्यादयश्च मेङ् च = निमील्यादिमेङ, तस्मात् । [तुल्यकर्तृके ] तुल्यः कर्ता यस्य सः = तुल्यकर्तृकः । 'शेषाद् वा' (७।३।१७५) कच्समासान्तः → क, तस्मिन् । तुल्यो धात्वर्थान्तरेण कर्ता यस्य निमील्यादिः क्रियाविशेषस्य स तुल्यकर्तृकस्तस्मिन्.... निमील्यादीनां समानकालार्थो मेङस्तु परकालार्थ आरम्भः । स्वभावात् मेङ् व्यतिहार एव वर्त्तते । [अक्षिणी निमील्य हसति] अक्षि औ । 'औरी:' (१।४।५६) ई । 'अनामस्वरे नोऽन्तः' (१२४६४) नोऽन्तः । 'मील निमेषणे' (४१५) मील, निपूर्व० । निमीलनेन = निमील्य । अनेन क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप्, हसति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy