SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १४ [ वर्त्म ] 'वृतूङ् वर्त्तने' (९५५) वृत् । वृत्तं तत्रेति । 'मन्' (उणा० ९११) मन्प्र० । [ चर्म ] 'चर भक्षणे च' (४१०) चर् । चरितं तत्रेति । 'मन्' (उणा० ९११) मन्प्र० । सर्वत्र प्रथमा सि । ‘सो रुः' (२।१।७२) स०र० । 'र: पदान्ते विसर्गस्तयो:' (१।३।५३) विसर्ग: । 'दीर्घङ्याब्व्यञ्जनात् सेः' (१।४।४५) सिलुक् । 'अनतो लुप्' (१|४|५९) सिलुप् ॥छ असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः || ५|१|१६ ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ असरूप: ] न सरूपः = असरूप: । 'नञत्' (३।२।१२५) न० अ० । प्रथमा सि । [ अपवादे ] अपोद्यते-अपवदनं वा = अपवाद:, तस्मिन् । 'भावा- ऽकर्त्रीः' (५।३।१८) घञ्प्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः, तस्मिन् । [प्राक् ] प्राक् प्रथमा सि । 'अव्ययस्य' (३२७) सिलुप् । [क्तेः ] क्ति पञ्चमी ङसि । [ अवश्यलाव्यम् ] अवश्यम् 'लूग्श् छेदने' (१५१९) लू । अवश्यं लूयते = अवश्यलाव्यम् । 'उवर्णादावश्यके' (५।१।१९) घ्यण्प्र० य । 'नामिनोऽकलि हले:' ( ४ | ३|५१) वृ० औ । 'य्यक्ये' (१।२।२५) आव् । 'कृत्येऽवश्यमो लुक्' (३।२।१३८) मलुक् । सि-अम् । [ अवश्यलवितव्यम् ] अवश्यं लूयते = अवश्यलवितव्यम् । 'तव्या - ऽनीयौ' (५/१/२७) तव्यप्र० 1 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव् ' (१।२।२४) अव् । 'कृत्येऽवश्यमो लुक्' ( ३।२।१३८ ) । मलुक् । सि-अम् । [ अवश्यलवनीयम् ] अवश्यं लूयते अवश्यलवनीयम् । 'तव्या - ऽनीयौ' (५।१।२७) अनीयप्र० । 'नामिनो गुणोऽक्ङिति (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'कृत्येऽवश्यमो लुक्' (३।२।१३८) । मलुक् । सि-अम् । = [ज्ञ: ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । जानातीति । 'नाम्युपान्त्य - प्री-कृ-गृ-ज्ञः कः' (५/१/५४) कप्र० → अ । 'इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । [ ज्ञाता ] ज्ञा । जानातीति । 'णक- तृचौ' (५।११४८) तृच्प्र० तृ । प्रथमा सि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८४) सि० डा० आ० । 'डित्यन्त्यस्वरादेः ' (२|१|११४) अन्त्यस्वरादिलोपः । [ ज्ञायकः ] ज्ञा । जानातीति । 'णक-तृचौ' (५।११४८ ) णकप्र० अक । 'आत ऐः कृञ्ञ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । [ नन्दनः] 'टुनदु समृद्धौ' (३१२) नद् । 'उदितः स्वरान्नोऽन्तः' (४|४|९८ ) नन्द् । नन्दन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । नन्दयतीति । 'नन्द्यादिभ्योऽन: ' ( ५/१/५२) अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । Jain Education International [ नन्दकः ] 'टुनदु समृद्धौ' (३१२) नद् । 'उदितः स्वरान्नोऽन्तः' ( ४|४|९८) नन्द् । नन्दन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२० ) णिग्प्र० । नन्दयतीति । 'णक - तृचौ' (५।११४८) कप्र० → अक । 'णेरनिटि ' (४।३।८३) णिग्लुक् । P. 55 समानं रूपं यस्य सः = समानरूपः न समानरूपः = असमानरूपः । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy