SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य चतुर्थः पादः ।। २८७ अन्यत्रापीति किम् ? यदाऽर्थात् प्रकरणाद् वाऽश्रद्धाऽमर्षयोर्गम्यमानत्वात् तद्वाचकेनाऽप्युपपदेन धातोर्न योगस्तदा मा भूत् ॥छ।। किङ्किला-ऽस्त्यर्थयोर्भविष्यन्ती ॥ ५।४।१६ ॥ [किङ्किलाऽस्त्यर्थयोः] अस्तेरर्थः = अस्त्यर्थः, किङ्किलश्च अस्त्यर्थश्च = किङ्किलाऽस्त्यर्थो, तयोः = किङ्किलाऽस्त्यर्थयोः । सप्तमी ओस् । [भविष्यन्ती] भविष्यन्ती प्रथमा सि । 'अश्रद्धाऽमर्षे'० (५।४।१५) इत्यादिना प्राप्तायाः सप्तम्या अपवादः । [किङ्किल नाम तत्रभवान् परदारानुपकरिष्यते] किम् - प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । प्रश्नार्थेकिल-प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । किलशब्दः प्रसिद्धिद्योतने, वाक्यालंकारेऽमर्षद्योतने, कोमलामन्त्रणे । एवं किङ्किलशब्दोऽपि निपातनसमुदायो वा गृह्यते । परदारानुपकरिष्यते - 'गन्धना-ऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे' (३।३७६) सूत्रेण साहसे आत्मनेपदम् । अस्त्यर्था अस्ति-भवति-विद्यतयः । [न श्रद्दधे, न मर्पयामि, अस्ति नाम, भवति नाम, विद्यते नाम, तत्रभवान् परदारानुपकरिष्यते ] 'परदारानुपकरिष्यते' पूर्ववत् साध्यः । अत्र सप्तमीनिमित्तं नास्तीति क्रियातिपतने क्रियातिपत्तिर्न भवति ॥छ।। जातु-यद्-यदा-यदौ सप्तमी ॥ ५।४।१७ ॥ [जातुयद्यदायदौ] जातुश्च यद् च यदा च यदि च = जातुयद्यदायदि, तस्मिन् । [सप्तमी ] सप्तमी प्रथमा सि ।। भविष्यन्त्यपवादोऽयम् । [जातु-यद्-यदा-यदि तत्रभवान् सुरां पिबेत् ] जातु-यद्-यदा-यदि । सर्वत्र प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । 'पा पाने' (२) पा । सप्तमी यात् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'श्रौति-कृवु-धिवु-पा'० (४।२।१०८) पिबादेशः । 'य: सप्तम्याः' (४।२।१२२) या० → ई० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए। अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः [जातु तत्रभवान् सुरामपास्यत्, पक्षे-पिबेत् ] 'पां पाने' (२) पा । क्रियातिपत्तिः स्यत् । 'अड् धातोरादि'० (४।४।२९) अट् ॥छ।। क्षेपे च यच्च-यत्रे ॥ ५।४।१८ ॥ [क्षेपे] क्षेप सप्तमी ङि । [च] च प्रथमा सि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy