SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८६ अश्रद्धा - ऽमर्षे ऽन्यत्रापि ॥ ५।४।१५ ॥ [ अश्रद्धाऽमर्षे ] न श्रद्धा = अश्रद्धा, न मर्षः = अमर्षः, अश्रद्धा च अमर्षश्च = अश्रद्धाऽमर्षम्, तस्मात् (तस्मिन्) । [ अन्यत्र ] अन्यस्मिन् = अन्यत्र | 'सप्तम्या:' ( ७/२/९४) त्रप्प्र० त्र । प्रथमा सि । 'अव्ययस्य' ( ३।२७) सिलुप् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां । [ अपि ] अपि प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् । क्षेप इति निवृत्तम् । अश्रद्धा असंभावना । अमर्षोऽक्षमा । अश्रद्धायाम् - [ न श्रद्दधे न संभावयामि, नावकल्पयामि, तत्रभवान् नामाऽदत्तं गृह्णीयात् ? ग्रहीष्यति ? ] श्रुत् प्रथमा सि । ‘दीर्घड्या व्यञ्जनात् से: ' (१।४।४५) सिलुक् । 'डुधांग्क् धारणे च' (१९३९) धा । वर्त्तमाना ए । 'हवः शिति' (४|१|१२) "धा" द्विः । 'ह्रस्वः' ( ४|१|३९) ह्रस्वत् । 'द्वितीय-तुर्ययोः पूर्वौ' (४|१|४२) धस्य दः । 'श्नश्चाऽऽतः' (४/२/९६ ) आलुक् । I 'भूण् अवकल्कने' (१७२२) भू, सम्पूर्व० । 'चुरादि ' ० ( ३।४।१७) णिच्प्र० । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव् ' (१।२।२४) आव् । वर्त्त० मिव् । 'नामिनो' ० ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । 'म-व्यस्याः' (४/२/११३) दीर्घः । यद्वा- संभवन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । अव 'कृपू(पौ)ङ् सामर्थ्ये' (९५९) कृप् । अवकल्पमानं प्रयुङ्क्ते । 'प्रयोक्तृ ' ० ( ३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'ऋ-र लृ - लं कृपोऽकृपीटादिषु ' (२।३।९९) लत्वम् । वर्त्त० मिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो' ० ( ४ | ३ |१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'म व्यस्याः ' ( ४।२।११३) दीर्घः । Jain Education International न दत्तं = अदत्तम् । 'ग्रहीश् उपादाने' (१५१७) ग्रह । सप्तमी यात् । 'क्र्यादेः' (३।४।७९) श्नाप्र० → ना । 'एषामी व्यञ्जनेऽद:' ( ४१२१९७) आ० → ई० । 'ग्रह - व्रस्व- भ्रस्ज-प्रच्छः (४१११८४) य्वृत् ग्र० → गृ० । ग्रह | भविष्यन्ती स्यति । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४|३२) इट् । गृणोऽपरोक्षायां दीर्घः' (४।४।३४) दीर्घः । - किंवृत्तेऽपि [ न श्रद्दधे न संभावयामि, नावकल्पयामि किं तत्रभवान् नामाऽदत्तमाददीत ? अदत्तमादास्यते ? ] 'डुदांग्क् दाने' (१९३८) दा, आङ्पूर्व० । सप्तमी ईत । 'हवः शिति' (४।१।१२) "दा' द्विः । ह्रस्वः' (४|१|३९) ह्रस्वः । श्रनश्चाऽऽतः' (४।२।९६) आलुक् । आङ् - दा । भविष्यन्ती स्यते । 'दागोऽऽस्वाऽऽस्यप्रसारविकासे' (३।३।५३) इत्यनेनात्मनेपदम् । अमर्षे [ न मर्षयामि, न क्षमे, धिग् मिथ्या, नैतदस्ति, तत्रभवान् नामाऽदत्तं गृह्णीयात् ? अदत्तं ग्रहीष्यति ? ] 'मृषिण् तितिक्षायाम्' (१९७६) मृष् । 'वर्त्त० मिव् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । 'लघोरुपान्त्यस्य ( ४ | ३ | ४ ) गु० अर् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो' ० (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'मव्यस्याः' (४।२।११३) दीर्घः । एवं किंवृत्तेऽपि । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति [ तत्रभवानदत्तमग्रहीष्यत् ? पक्षे- गृहणीयात्, ग्रहीष्यति च ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । क्रियातिपत्तिः' स्यत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'गृहणोऽपरोक्षायां ० (४।४।३४ ) इटो दीर्घः । 'अड् धातोरादि' ० (४।४।२९) अट् । 'नाम्यन्तस्था - कवर्गात् ' ० (२।३।१५) षत्वम् । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy