________________
पञ्चमाध्यायस्य चतुर्थः पादः ॥
२७९
[यावज्जीवं युक्तोऽध्यापिपत् ] 'इंफू अध्ययने' (११०४) इ, अधिपूर्व० । अधीयानं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'णौ क्री-जीडः' (४।२।१०) इ० → आ । 'अर्ति-री-व्ली-ही'० (४।२।२१) पोऽन्तः ।
दे → त् । “णि-श्रि-द्रु-गु-कमः कर्तरि ङ:' (३।४।५८) ङप्र० → अ । 'स्वराऽऽदेर्द्वितीयः' (४।१।४) "पि"द्विः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृ० आ ।
[यावज्जीवं युक्तोऽध्यापयिष्यति] पूर्ववन्निष्पन्ना 'अध्यापि' मण्ड्यते । भविष्यन्ती स्यति । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।२९) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
आसत्तौ खल्वपि
[येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट, प्रवृत्तः] या इयं पू(पौ)र्णमासी अतिक्रामति स्म = अतिक्रान्ता । 'गत्यर्थाऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'आत्' (२।४।१८) आप्प्र० → आ ।
एतस्याम् - "एतद् सप्तमी ङि । 'सर्वादेर्डस्पूर्वाः' (१।४।१८) ङि० - डस्याम् → अस्याम् ।
'महण पूजायाम्' (१९२५) मह । 'चुरादिभ्यो णिच् (३।४।१७) णिच्प० । 'अतः' (४।३।८२) अलुक् । महनं = महः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । जिनानां महः = जिनमहः ।
प्रपूर्व० 'वृतूङ् वर्त्तने' (९५५) वृत् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादि'० (४।४।२९) अट् । 'नाम्यन्तस्था-कवर्गात्'. (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग'० (१।३।६०) त० → टा० ।
प्रवृत्यते स्म = प्रवृत्तः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त ।
[येयं पौर्णमास्यागामिनी अस्यां जिनमहः प्रवर्तिष्यते] आगमिष्यतीति आगामिनी । 'आङश्च णित् । (उणा० ९२०) णिद् इन्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङीप्र० ।
अस्याम्-इदम् सप्तमी ङि । 'आपो ङितां यै-यास-यास-याम्' (१।४।१७) ङि० → याम् । 'सर्वादेर्डस्पूर्वाः' (१।४।१८) याम्० → स्याम् । द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय ॥छ।।
एष्यत्यवधौ देशस्याऽर्वाग्भागे ॥ ५।४।६ ॥ [एष्यति ] 'इंण्क् गतौ' (१०७५) इ । एष्यतीति एष्यन्, तस्मिन् । 'शत्रानशावेष्यति'० (५।२।२०) शतृप्र० → अत्-स्य आदौ च । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए ।
[अवधौ] 'डुधांग्क् धारणे च' (११३९) धा, अवपूर्व० । अवधानं = अवधिस्तस्मिन् । 'उपसर्गाद् दः किः' (५।३।८७) किप्र० → इ । 'इडेत्-पुसि'० (४।३।९४) आलुक् ।
[देशस्य] देश षष्ठी ङस् ।। [अर्वाग्भागे] अर्वाक् चासौ भागश्च = अर्वाग्भागस्तस्मिन् ।
[योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे, द्विः सक्तून् पास्यामः] अत्र सूत्रे देश:-प्रदेशमात्रं, तेन अध्वनोऽपि देशता । 'कालाध्व-भाव-देशं वाऽकर्म चाऽकर्मणाम्' (२।२।२३) इत्यत्र तु देशो राष्ट्रादि, अत एव तत्र देशे सत्यपि अध्वग्रहणम् । अध्वन् प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । गम्यते = गन्तव्यः । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । आ प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org