________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
विषू
[ इषे चेन्माधवोऽवर्षीत्, समपत्सत शालयः ] इषे- अश्वयुधि, चेत् माधव प्रथमा सि । जिषू (५२२) (५२३) मिषू (५२४) निषू (५२५) पृषू (५२६) 'वृषू सेचने' (५२७) वृष् । अद्यतनी दि त् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । सः सिजस्तेर्दि - स्यो:' ( ४|३|६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४|३२) इट् । 'इट ईति' (४।३।७१) सिच्लुक् । 'समानानां ' ० ( १।२।१) दीर्घः । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अड् धातोरादि’० (४।४।२९) अट् ।
२७८
-
=
'पर्दिच् गतौ' (१२५७) पद्, सम्पूर्व० । अद्यतनी अन्त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) द० त० । 'अड् धातोरादि' ० (४।४।२९) अट् । 'अनतोऽन्तोदात्मने' (४।२।११४) अन्त० अत० । शालि प्रथमा जस् ।
जातश्चायं मुखेन्दुश्चेत्, भृकुटिप्रणयी पुनः ।
गतं च वसुदेवस्य कुलं नामावशेषताम् ॥
[ जात: ] 'जनैचि प्रादुर्भावे' (१२६५) जन् । अजनि जायते स्म इति वाक्यं कार्यम्, ननु जनिष्यते इति तत्राऽप्यस्य प्रवर्त्तनात् । ‘गत्यर्था-ऽकमर्क - पिब- भुजेः' (५|१|११) क्तप्र० त । 'आ: खनि - सनि-जन : ' ( ४|२|६०) न० आ ।
-
[ गतम् ] अम (३९२) - द्रम (३९३) - हम्म (३९४) मीमृ ( ३९५ ) - 'गम्लुं गतौ' (३९६) गम् । अगमत्गच्छति स्म इति वाक्यं कार्यम्, ननु गमिष्यति इति तत्राऽप्यस्य प्रवर्त्तनात् । 'गत्यर्था - ऽकर्मक- पिब-भुजेः' (५/१/११) क्तप्र० → त । ‘यमि-रमि-नमि-गमि- हनि-मनि-वनति - तनादेर्धुटि क्ङिति' (४/२/५५) मलुक् । सि-अम् ॥छ||
नाऽनद्यतनः प्रबन्धा - ऽऽसत्त्योः ॥ ५॥४५ ॥
-
[न] न प्रथमा सि ।
[ अनद्यतन: ] न अद्यतन: = अनद्यतन:, न तु विद्यतेऽद्यतनो यत्रेति बहुव्रीहेर्व्यापकत्वात् परोक्षाया अपि निषेधः स्यात्, तत्र अद्यतनो नास्तीति कृत्वा । नञ्तत्पुरुषे तु सामान्ये कृते विशेषे नान्तर्भवति, सामान्यमध्ये विशेषायोगात् ।
[प्रबन्धाऽऽसत्त्योः ] 'प्रबन्धनं = प्रबन्धः । ' भावा - ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र० अ 'षद्ॡ विशरणगत्यवसादनेषु' (९६६) षद् । ' षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२२३।९८) सद्, आङ्पूर्व० । आसदनं = आसत्तिः । 'वादिभ्यः' (५|३|९२) क्तिप्र० ति । प्रबन्धश्च आसत्तिश्च प्रबन्धाऽऽसत्ती, तयोः = प्रबन्धाऽऽसत्त्योः । सप्तमी ओस् ।
Jain Education International
सातत्य - सामीप्ययोरित्यर्थः । भूतानद्यतने ह्यस्तनी भविष्यदनद्यतने च श्वस्तनी विहिता, तयोरनेन प्रतिषेधः । 'सामान्यातिदेशे विशेषस्य नातिदेशः' (न्या०सं०वक्ष० ( १ ) / सूत्र ( ५ ) ) इति न्यायात् सामान्याऽनद्यतनस्यैव प्रतिषेधः, न विशेषाऽनद्यतनस्य' तेन परोक्षाया न प्रतिषेधः ।
[ यावज्जीवं भृशमन्नमदात् ] यावत् 'जीव प्राणधारणे' (४६५) जीव् । यावज्जीव्यते = यावज्जीवम् । 'यावतो विन्द-जीवः' (५।४।५५) णम्प्र० अम् । भृश 'क्रियाविशेषणात् ' (२२४१) अम् । 'अदं भक्षणे' (१०५९) अद् । अद्यते तदिति अन्नम् । ‘ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५/२/९२) क्तप्र० त । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-तस्य न० । अम् । अदात् 'पिबैति - दा - भू' ० (४|३|६६) । सिच्लुप् ।
[ यावज्जीवं भृशमन्नं दत्तवान् ] ददाति स्म = दत्तवान् । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'दत्’ (४|४|१०) इत्यनेन दा० दत्० ।
For Private Personal Use Only
www.jainelibrary.org