SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [स्वायंभवं भवता] सुखेनाऽनाढ्येनाऽऽढ्येन भूयते = स्वाढ्यंभवम् । [ईषदाढ्यंभवं भवता] ईषदनायासेनाऽनाढ्येनाऽऽढ्येन भूयते = ईषदाढ्यंभवम् । अनेन खल्प्र० । शेषं पूर्ववत् । इति कर्तरि उदाहरणत्रयम् । इदानीं कर्मणि - [दुराढ्यंकरो मैत्रो भवता] दुःखेनाऽनाढ्य आढ्यः क्रियते = दुराढ्यंकरो मैत्रः । [स्वाढ्यंकरश्चैत्रो भवता] सुखेनाऽनाढ्य आढ्यः क्रियते = स्वाढ्यंकरश्चैत्रः । [ईषदाढ्यंकरश्चैत्रो भवता] ईषदनायासेनाऽनाढ्य आढ्यः क्रियते = ईषदाढ्यंकरश्चैत्रः । अनेन खलप्र० → अ। 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'खित्यनव्ययाऽरुषो'० (३।२।१११) मोऽन्तः । [सुकटंकराणि वीरणानि] सुखेनाऽकट: कटः क्रियन्ते = सुकटंकराणि वीरणानि । अनेन खल्प्र० । [सुकरः कटो वीरणैः] सुखेन क्रियते सुकरः । 'दुः-स्वीषतः कृच्छा'० (५।३।१३९) खलप्र० → अ । 'नामिनो'० (४।३।१) गु० अर् । [सुकरः] कटो वीरणैरित्यत्र तु करणविवक्षा । जायद्यपि च सुकरो वीरणानि अकट: क्रियन्ते तथा न तेषां तद्भावः, इह विवक्षा किं तर्हि करणे करणभावः ? तत्र न दुः-स्वीषतः परात् कर्मणः परो धातुरपि, न (तु) दुः-स्वीषत एव पर इति, तत्र पूर्वेणैव प्रत्ययो भवति । [दुराढ्यः क्रियते] त(य)था शुक्लं करोतीति प्रयोगे [अ]शुक्लत्वलक्षणाप्रकृतिः विद्यमाना अपि न विवक्ष(क्ष्य)ते तथाऽत्रापि अनाढ्य एवंरूपायाः प्रकृतेरविवक्षणात् ॥छ।। शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः ॥ ५।३।१४१ ॥ [शासूयुधिदृशिधृषिमृषाऽऽतः] शासूश्च युधिश्च दृशिश्च धृषिश्च मृषश्च आच्च = शासूयुधिदृशिधृषिमृषाऽऽत्, तस्मात् । [अनः ] अन प्रथमा सि । [दुःशासन ] 'शासूक् अनुशिष्टौ' (१०९५) शास्, दुपूर्व० । दुःखेन शिष्यते = दुःशासनः । अनेन अनप्र० । [सुशासनः ] शास्, सुपूर्व० । सुखेन शिष्यते = सुशासनः । अनेन अनप्र० । [ईषच्छासनः ] शास्, ईषत्पूर्व० । ईषदनायासेन शिष्यते = ईषच्छासनः । अनेन अनप्र० । [ दुर्योधनः] दुर् 'युधिच् सम्प्रहारे' (१२६०) युध् । दुःखेन युध्यते = दुर्योधनः । अन्तर्भूतण्यर्थः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ। [दुर्दर्शनः ] दुर् 'दृशं प्रेक्षणे' (४९५) दृश् । दुःखेन दृश्यते = दुर्दर्शनः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । [दुर्धर्षणः] दुर् 'जिधृषाट् प्रागल्भ्ये' (१३१२) धृष् । दुःखेन धृष्यते = दुर्धर्षणः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 9 अयं पाठोऽशुद्धः प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy