________________
पञ्चमाध्यायस्य तृतीयः पादः॥
२७३
_ [दुर्मर्षणः] दुर् 'मृषीच तितिक्षायाम्' (१२८४) मृष् । दुःखेन मृष्यते = दुर्मर्षणः । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् ।
आदन्त:
[दुरुत्थानं भवता] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे'. (न्या०सं०वक्ष०(१)/सूत्र (२९)) स्था, उत्पूर्व० । दुःखेन उत्थीयते = दुरुत्थानम् । अनेन अनप्र० । 'उदः स्था-स्तम्भः सः' (१।३।४४) सलुक् ।।
[सूत्थानं भवता] सुखेन उत्थीयते = सूत्थानम् । अनेन अनप्र० । 'उदः स्था-स्तम्भः सः' (१।३।४४) सलुक् ।
[ईषदुत्थानं भवता] ईषदनायासेन उत्थीयते = ईषदुत्थानम् । अनेन अनप्र० । 'उदः स्था-स्तम्भः सः' (१।३।४४) सलुक् ।
[दुष्पानं पयो भवता] दुर् 'पां पाने' (२) पा । दुःखेन पीयते = दुष्पानम् । अनेन अनप्र० । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) रस्य षत्वम् ।
[सुपानं पयो भवता] सुखेन पीयते = सुपानम् । अनेन अनप्र० । [ईषत्पानं पयो भवता] ईषदनायासेन पीयते = ईषत्पानम् । अनेन अनप्र० । एवं दुःशास इत्यादिषु मतान्तरे विकल्पेन 'दुः-स्वीषतः कृच्छ्रा' ० (५।३।१२९) खलप्र० → अ ।
[ईषद्दरिद्रः] ईषत् 'दरिद्राक् दुर्गतौ' (१०९२) दरिद्रा । ईषदनायासेन दरिद्य्ते = ईषद्दरिद्रः । अस्य अनप्रत्ययस्य विषयेऽप्याकारस्य 'अशित्यस्सन्-णक-णकाऽनटि' (४।३७७) इत्यादिना लोपेन आदन्तत्वाभावात् 'दुः-स्वीषतः कृच्छ्रा०' (५।३।१३९) खल्प्र० → अ ।
ननु धातोरकर्मकत्वाद्भावे प्रत्यये कथमत्र पुंस्त्वम् ? दुराढ्यंभवमित्यादिवत् नपुंसकत्वमाप्तेः । सत्यम् - 'कालाऽध्वनोळप्तौ (२।२।४२) इत्यनेन मासादेः कर्मणि खल् न तु भावे, ततो यत्र मासादौ दरिद्रैर्भूयते स मास ईषद्दरिद्र उच्यते ।
खलोऽपवादो योगः सूत्रमुच्यते ॥छा। इत्याचार्यश्रीहेमचन्द्रविरचितायां बृहद्वत्तौ कृतस्य तृतीयः पादः ॥छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org