SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ २७१ [जयः] 'जिं अभिभवे' (८) जि । जयनं = जयः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [लवः] 'लूग्श् छेदने' (१५१९) लू । लवनं = लवः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव् (१।२।२४) अव् । [यवः ] 'युक् मिश्रणे' (१०८०) यु । यवनं = यवः । 'युवर्ण-वृ-दृ-वश-रण'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव् (१।२।२४) अव् । [कृतिः] 'डुइंग् करणे' (८८८) कृ । करणं = कृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । [हतिः ] 'हंग् हरणे' (८८५) ह । हरणं = हृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । [चितिः ] 'चिंग्ट् चयने' (१२९०) चि । चयनं = चितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । [स्तुतिः ] स्तु । स्तवनं = स्तुतिः । 'श्वादिभ्यः' (५।३।९१) क्तिप्र० → ति । इत्यादौ उभयं प्राप्नोति, अलो षष्ठी ङस् लिङ्गिविशेषेण नाऽभिधानम्, अलोऽविशेषेणाभिधानात् तत्र परत्वात् स्त्रीप्रत्ययो भवति । [दुर्भेदः] दुर् । 'भिदूंपी विदारणे' (१४७७) भिद् । दुःखेन भिद्यते = दुर्भेदः । अनेनैव खल्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। [सुभेदः] सुखेन भिद्यते = सुभेदः । अनेनैव खल्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [दुश्चयम् ] दुर् 'चिंग्ट् चयने' (१२९०) चि । दुःखेन चीयते = दुश्चयम् । अनेन खल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । “एदैतोऽयाय्' (१।२।२३) अय् । [सुचयम् ] सुखेन चीयते = सुचयम् । अनेन खल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [दुर्लवम् ] दुर् 'लूग्श् छेदने' (१५१९) लू । दुःखेन लूयते = दुर्लवम् । अनेन खल्प्र० → अ । 'नामिनो'. (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [सुलवम् ] सुखेन लूयते = सुलवम् । अनेन खल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ॥छ। च्च्यर्थे काप्याद् भू-कृगः ॥ ५।३।१४० ॥ [व्यर्थे ] च्वेरर्थः = व्यर्थस्तस्मिन् । [काप्यात् ] कर्ता च आप्यं च = काप्यम्, तस्मात् । [भूकृगः] भूश्च कृग् च = भूकृग्, तस्मात् । [दराढ्यंभवं भवता] दःखेनाऽनाढ्येनाऽऽढ्येन भूयते = दुराढ्यंभवम् । अनेन खलप्र० → अ । 'खित्यनव्ययाऽरुषो मोऽन्तो हुस्वश्च' (३।२।१११) मोऽन्तः । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'सि-अम् । 'समानादमोऽतः' (१।४।४६) अलुक । भवत् तृतीया टा इति प्रत्येकं ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy