________________
२७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
अर्थे -[यजेरङ्गानि] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । अनेन इप्र० । षष्ठी ङस् । यज्ञस्य अङ्गानीत्यर्थः ।
[ भजिः क्रियते ] 'भञ्जोंप आमर्दने' (१४८६) भङ्ग् । अनेन किप्र० → इ । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् ।
[पचतिर्वर्तते ] 'डुपचींष् पाके' (८९२) पच् । अनेन तिवप्र० → ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव्, पाक इत्यर्थः ।
दुः-स्वीषतः कृच्छ्राऽकृच्छ्रार्थात्-(र्थे ) खल् ॥ ५।३।१३९ ॥ [ दुःस्वीषतः ] दुश्च सुश्च ईषच्च = दुःस्वीषत्, तस्मात् ।
[कृच्छ्राऽकृच्छ्रार्थात्-(र्थे )] कृच्छं च अकृच्छ्रे च = कृच्छाऽकृच्छे, कृच्छ्राऽकृच्छ्रेऽर्थो(ों) यस्य सः = कृच्छ्राऽकृच्छ्रे(च्छ्रार्थः), तस्मात्-तस्मिन् वा ॥
कृच्छू-दुःखम्, अकृच्छू-सुखम् । कृत्यादीनामपवादः । [दुःशयम्] दुर् 'शीङ्क् स्वप्ने' (११०५) शी । दुःखेन शय्यत इति दुःशयम् । [सुशयम् ] सुखेन शय्यते = सुशयम् ।
[ईषच्छयं भवता] ईषदनायासेन शय्यते = ईषच्छयं भवता । अनेन खल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[ दुष्करः] दुर् 'डुइंग् करणे' (८८८) कृ । दुःखेन क्रियते = दुष्करः । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) षत्वम् ।
[सुकरः] सुखेन क्रियते = सुकरः ।
[ईषत्करः कटो भवता] ईषदनायासेन क्रियते = ईषत्करः । अनेन खलप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् ।
[दुष्करं, सुकरं, ईषत्करं भवता] दुःकरं-सुकर-ईषत्करं पूर्ववत् ।
[कृच्छ्रसाध्यः] राधं (१३०४) - 'साधंट् संसिद्धौ' (१३०५) साध् । कृच्छ्रेण साध्यते = कृच्छ्रसाध्यः । 'य एच्चातः' (५।१।२८) यप्र० । ('ऋवर्ण-व्यञ्ज'० (५।१।१७) घ्यणप्र० → य)।
[सुखसाध्यः] सुखेन साध्यते = सुखसाध्यः । 'य एच्चातः' (५।१।२८) यप्र० । ('ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यणप्र० → य) ।
[ईषल्लभ्यं धनं कृपणात्] 'डुलभिष् प्राप्तौ' (७८६) लभ् । ईषदल्पं लभ्यते = ईषल्लभ्यम् । 'य एच्चातः' (५।१।२८) यप्र० । ('शकि-तकि-चति' ० (५।१।२९) यप्र०) । सि-अम् । धनं कृपणात् । अल्पं लभ्यमित्यर्थः ।
खकार उत्तरत्र मागमार्थः । लकार: "खलाश्च" इत्यत्र विशेषणार्थः ।
[चयः] 'चिंगद चयने' (१२९०) चि । चयनं = चयः । 'युवर्ण-वृ-दृ-वश-रण-गमद्-ग्रहः' (५।३।२८) अलप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । ॐ बृहद्वृत्तौ - 'भुजिः क्रियते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org