________________
पञ्चमाध्यायस्य तृतीयः पादः ॥
२६९
[घृतोदङ्कः ] घृत उत् 'अञ्चू गतौ च' (१०५) अञ्च् । उदच्यते = उदङ्कः । अनेन घञ्प्र० → निपात्यते च । घृतस्य उदङ्कः = घृतोदङ्कः ।
[उदकोदञ्चनः] उदच्यतेऽनेनेति उदञ्चनः । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । उदकस्योदञ्चनः = उदकोदञ्चनः । 'व्यञ्जनाद् घञ्' (५।३।१३२) इति सिद्धे तोये प्रतिषेधार्थं वचनम् ॥छा।
__ आनायो जालम् ॥ ५।३।१३६ ॥ [आनायः] आनाय प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [जालम् ] जाल सि-अम् ।
[आनायो मत्स्यानाम्-मृगाणाम् वा] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी, आपूर्व० । आनयन्ति तेन = आनायो मत्स्यानाम्-मृगाणाम् वा । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् ॥छा।
खनो ड-डरेकेकवक-घं च ॥ ५।३।१३७ ॥ [खनः] खन् पञ्चमी ङसि ।।
[डडरेकेकवकघम्] डश्च डरश्च इकश्च इकवकश्च घश्च = डडरेकेकवकघम् ।
[च] च प्रथमा सि ।
[आखः ] 'खनूग् अवदारणे' (९१३) खन्, आफूर्व० । आखायते-आखयन्ते वा अनेनास्मिन् वा = आखः । अनेन डप्र० → अ । 'डित्यन्त्य'० (२।१।११४) अन्लुक् ।
[आखरः] आखायते-आखन्यते वा अनेनास्मिन् वा = आखरः । अनेन डरप्र० → अर । "डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् ।
[आखनिकः ] आखायते-आखन्यते वा अनेनास्मिन् वा = आखनिकः । अनेन इकप्र० । [आखनिकवकः] आखायते - आखन्यते वा अनेनास्मिन् वा = आखनिकवकः । अनेन इकवकप्र० । [आखनः] आखायते-आखन्यते वा अनेनास्मिन् वा = आखनः । अनेन घप्र० → अ ।
[आखानः] आखायते-आखन्यते वा अनेनास्मिन् वा = आखानः । 'व्यञ्जनाद् घञ् (५।३।१३२) घञ्प्र० → अ। 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ॥छ।।
इ-कि-श्तिव् स्वरूपाऽर्थे ॥ ५।३।१३८ ॥ [इकिश्तिव्] इश्च किश्च श्तिव् च = इकिश्तिव् । [स्वरूपाऽर्थे ] स्वरूपं च अर्थश्च = स्वरूपाऽर्थम्, तस्मिन् । [भञ्जिः ] 'भञ्जोंप आमर्दने' (१४८६) भञ्ज । अनेन इप्र० । [क्रुधिः ] 'क्रुधंच् कोपे' (११८४) क्रुध् । अनेन किप्र० → इ । [ वेत्तिः] 'विदक् ज्ञाने' (१०९९) विद् । अनेन श्तिवप्र० → ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org