SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । स्वरान्तार्थ आरम्भः । [न्यायः] निपूर्व० 'इंण्क् गतौ' (१०७५) इ । नीयतेऽनेनेति न्याय: । अनेन घञ्प्र० । स्वरान्तत्वात् परत्वात् घस्य प्राप्तेः 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । [आवायः] 'वेंग तन्तुसंताने' (९९२) वे । पैं (४७) - 'ओवै शोषणे' (४८) वै । 'आत् सन्ध्य क्षरस्य' (४।२।१) वा । एत्य वयन्ति - वायन्ति वा तत्रेति आवायः । अनेन घञ्प्र० → अ । 'आत ऐः कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । [अध्यायः] 'इंङ्क् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयतेऽनेनास्मिन् वा = अध्यायः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । [उद्यावः] 'युक् मिश्रणे' (१०८०) यु, उत्पूर्व० । उधुवन्ति तेन तस्मिन् वा = उद्यावः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [संहारः] सम्पूर्व० 'हंग हरणे' (८८५) हृ । संहरन्ति तेन तस्मिन् वा = संहारः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [अवहारः] अवपूर्व० 'हंग हरणे' (८८५) ह । अवहरन्ति तेन तस्मिन् वा = अवहारः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [ आधारः] 'धुंग् धारणे' (८८७) धृ, आयूर्व० । आध्रियते तत्रेत्याधारः । [दाराः] 'दृश् विदारणे' (१५३५) दृ । दीर्यन्ते पुरुषा एभिरिति दाराः । अनेन घप्र० → अ । [जारः] 'जृश् वयोहानौ' (१५३६) जू । जीर्यतेऽनेनेति जारः । अनेन घञ्प्र० → अ । [दाराः] 'दृश् विदारणे' (१५३५) दृ । दृणन्तं प्रयुङ्क्ते । 'प्रयोक्तृ' ० (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धि: आर् । दारयन्तीति । अनेन घप्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लोपः । प्रथमा जस् । [जारः] 'जश् वयोहानौ (१५३६) ज । जृणन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । जरयतीति जारः । अनेन घञ्प्र० → अ । ‘णेरनिटि' (४।३।८३) णिग्लोपः । मतान्तरे एतदुहारणद्वयं ज्ञेयम् । ___ ननु जार इत्यस्म(इत्यस्य) कार्ये 'कगे-वन-जनै-जृष्-क्नस्-रञ्जः' (४।२।२५) इति हुस्वत्वे दीर्घो न(नेति) निपातः क्रियताम्, दार इत्यस्म(इत्यस्य) तु किं निपातनेन ? सत्यम्-भयविवक्षायां दृधातोर्घटादित्वात् दरयतीति यदा क्रियते तदा अपि दीर्घा भूयात् इत्येवमर्थं निपातः ॥छ।। __ उदङ्कोऽतोये ॥ ५।३।१३५ ॥ [उद्ङ्कः ] उदङ्क प्रथमा सि । [अतोये ] न तोयः = अतोयस्तस्मिन् । [तैलोदङ्कः] तैल उत् 'अञ्चू गतौ च' (१०५) अञ्च । उदच्यतेऽनेन = उदङ्कः । अनेन घञ्प्र० - निपात्यते च । तैलस्य उदङ्कः = तैलोदकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy