SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ठिकायां । अत्र बहुलाधिकारात् णको न भवति, ननु यदा पर्यायादीनामेव प्रश्नाऽऽख्यानं वा क्रियते तदा तेषु इञ् कस्मान्न भवति ? इत्याह- प्रत्युत्तरमाह प्रश्नाऽऽख्यानयोगेऽपि पर्यार्यादिषु परत्वात् णक एव भवति नेञ् । यथा कुत्र भवत आसिकेति आसितुं पर्याय: ||छ | २५६ 1 नाम्नि पुंसि च ॥ ५।३।१२१ ॥ [ नाम्नि ] नामन् सप्तमी ङि । [पुंसि ] पुम्स् सप्तमी ङि । 'शिड्- हेऽनुस्वारः' (१।३।४०) अनुस्वारः । [च] च प्रथमा सि । यथादर्शनं पुंसि च । [ प्रच्छर्दिका ] 'छर्दण् वमने' (१६५९) छद्, प्रपूर्व० । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० । प्रच्छर्दनंप्रच्छर्द्यतेऽनयेति वा = प्रच्छर्दिका वमनम् । अनेन णकप्र० अक । 'णेरनिटि' (४|३|८३) णिच्लोपः । 'आत्’ (२।४।१८) आप्प्र० आ । 'अस्याऽयत्' ० (२|४|१११ ) इ० । [ प्रवाहिका ] 'वहीं प्रापणे' (९९६) वह, प्रपूर्व० । प्रवहणं - प्रोह्यतेऽनयेति वा = प्रवाहिका आरजः प्रवृत्ति: । अनेन णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [ विचर्चिका ] 'चर्चण् अध्ययने' (१७२९) चर्च, विपूर्व० 'चुरादि' ० ( ३ | ४|१७) णिच्प्र० । विचर्चनंविचर्च्यतेऽनयेति वा = विचर्चिका पामा । अनेन णकप्र० अक । 'णेरनिटि' (४।३।८३) णिच्लोपः । प्रस्कद्यतेऽनयेति वा = [ प्रस्कन्दिका ] 'स्कन्दुं गति - शोषणयो:' ( ३१९ ) स्कन्द, प्रपूर्व० । प्रस्कन्दनं प्रस्कन्दिका क्षया (य) रोगः । अनेन णकप्र० अक । [ विपदिका ] विपूर्व० 'पर्दिच् गतौ ' (१२५७) पद् । विपदनं - विपद्यतेऽनयेति वा = अनेन णकप्र० अक । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । सर्वत्र 'आत्' (२|४|१८) आप्प्र० आ । 'अस्याऽयत् ' ० (२|४|१११ ) इ० । एते (ताः) रोगसंज्ञा: । [ उद्दालकपुष्पभञ्जिका ] 'भञ्जोंप् आमर्दने' (१४८६) भञ्ज । उद्दालकपुष्पेति । 'कृति' (३|१|७७) इति षष्ठीसमासः । उद्दालकपुष्पाणि भज्यन्ते यस्यामिति अर्थकथनम्, वाक्यं तु भज्यन्ते यस्यां सा = भञ्जिका । अनेन णकप्र० → अक। 'आत्' (२।४।१८) आप्प्र० आ । 'अस्याऽयत् तत् ' ० (२|४|१११ ) इ० । उद्दालकपुष्पाणां भञ्जिका इति कार्यम्, न तु 'अकेन क्रीडा - ऽऽजीवे' (३।११८१ ) इति समास:, तेन कर्तृविहिताकान्तेन सह विधानात्, णकस्त्वनेन कर्तृवर्जं प्रवर्तते । Jain Education International [ वारणपुष्पप्रचायिका ] वरणो वृक्षविशेषस्तस्येमानि वारणानि । 'तस्येदम्' (६ | ३ | १६० ) अण्प्र० अ । 'वृद्धिः स्वरेष्वादे' ० (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वारणानि च तानि पुष्पाणि च = वारणपुष्पाणि । 'चिंग्ट् चयने (१२९०) चि, प्रपूर्व० । प्रचीयन्ते यस्यां सा = प्रचायिका । अनेन णकप्र० → अक । 'नामिनोऽकालि-हले:' ( ४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । 'आत्' (२|४|१८) आप्प्र० → आ । ‘अस्याऽयत्-तत्’० (२|४|१११) इ । वारणपुष्पाणां प्रचायिका = वारणपुष्पप्रचायिका । फ श० म० न्या० कदा भवत आसिका । विपादिका - विस्फोटिकाप्युच्यते । = For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy