SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः । २५५ [भवतोऽग्रगामिका] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम। अग्रे गन्तं पर्यायः । अनेन णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'आत्' (२।४।१८) आपप्र० → आ । 'अस्याऽयत्' (२।४।१११) अ० → इ० । अग्रे गन्तुं भवतः क्रम इत्यर्थः । 'अहं पजायाम' (५६४) अर्ह । अर्हणमहः । 'भावा-ऽकोंः ' (५।३।१८) घजप्र० २ अ। अर्हः - योग्यता उच्यते । [अर्हति भवान् इक्षुभक्षिकाम्] 'भक्षण् अदने' (१७१७) भक्ष् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । इक्षूणां भक्षणं = इक्षुभक्षिकाम् । अनेन णकप्र० → अक । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्'० (२।४।१११) इ० । [अर्हति भवान् ओदनभोजिकाम् ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । ओदनस्य भोजनं = ओदनभोजिका, ताम् । अनेन णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्'० (२।४।१११) इ० । [अर्हति भवान् पयःपायिकाम् ] 'पां पाने' (२) पा । पयसः पानं = पयःपायिका, ताम् । अनेन णकप्र० → अक । 'आत ऐः कृऔ' (४।३५३) आ० → ऐ० । 'एदैतोऽयाय' (१।२।२३) आय् । 'आत्' (२।४।१८) आपप्र० → आ । 'अस्याऽयत्-तत्'० (२।४।१११) इ० । 'कृति' (३।११७७) इत्यनेन षष्ठीसमासः । ऋणं-यत् परस्मै धार्यते । [इक्षुभक्षिकां मे धारयसि] 'रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमणेषु' (२।२।५५) इत्यादिना चतुर्थ्यन्तस्य युष्मदः स्थाने 'डे-ङसा ते-मे' (२२१२३) "मे"आदेशः । उत्पत्तिर्जन्म। [इक्षुभक्षिका मे उदपादि] इक्षुभक्षिका मे उत्पूर्व० 'पदिच् गतौ' (१२५७) पद् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच् → इ - तलुक् च । "णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'अड् धातोरादि'० (४।४।२९) अट् । 'धुटस्तृतीयः' (२।१।७६) त० → द० । प्रश्ने-आख्याने च पूर्वसूत्रेण निष्पन्नम् । [चिकीर्षा मे उदपादि] 'डुकंग् करणे' (८८८) कृ । कर्तुमिच्छा = चिकीर्षा । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां विङतीर्' (४|४|११६) किर् । 'सन्-यङश्च (४।१३) "किर"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'क-ङश्च-' (४।१।४६) कि० → चि० । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । 'भ्वादेर्नामिनो'० (२।१।६३) दीर्घः । चिकीर्षणं = चिकीर्षा । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [बुभुक्षा मे उदपादि] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भोक्तुमिच्छति । 'तुमर्हादिच्छायां'० (३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'द्वितीय-तुर्ययोः पूर्वी (४।१।४२) भु० → बु० । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिट:' (१३५०) ग० → क० । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । क-षयोगे क्ष० । बुभुक्षणं = बुभुक्षा । 'शंसि-प्रत्ययात्' (५।३।१०५) अप्र० । 'अतः' (४।३।८२) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy