________________
पञ्चमाध्यायस्य तृतीयः पादः॥
२५७
[अभ्योषखादिका] अभिपूर्व० 'उषू दाहे' (५२९) उष् । अभ्योषणानि = अभ्योषाः । 'भावा-ऽकोंः' (५।३।१८) घप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'खादृ भक्षणे' (२९४) खाद् । अभ्योषाः खाद्यन्तेऽस्यामिति अभ्योषखादिका । अनेन णकप्र० → अक । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्'० (२।४।१११) इ ।
[अवोषखादिका] अवपूर्व० 'उषू दाहे' (५२९) उष् । अवोष्यन्ते = अवोषाः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'उपसर्गस्यानिणेधेदोति' (१।२।१९) अलुक् । अवोषाः खाद्यन्तेऽस्यामिति अवोषखादिका । अनेन णकप्र० → अक । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्'० (२।४।१११) इ।
[शालभञ्जिका] 'भञ्जोंप आमर्दने' (१४८६) भञ्ज । शाला भज्यन्ते यस्यां सा = शालभञ्जिका । अनेन णकप्र० → अक । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्'० (२।४।१११) इ । एवं नामानः क्रीडाः ।
बहुलाधिकारादिह न भवति
[शिरोतिः ] शिरस् 'अर्द गति-याचनयोः' (३०१) अ । शिरसोऽर्दनं = शिरोतिः । ॐ 'श्वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'अघोष'० (१।३।५०) द० → त० । 'सो रुः' (२।११७२) स० → र० । 'अतोऽति रोरुः' (१।३।२०) र० → उ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ओ । 'एदोतः पदान्तेऽस्य लुक्' (१।२।२७) अलुक् ।
[शीर्षार्तिः] शीर्ष 'अर्द गति-याचनयोः' (३०१) अर्दु । शीर्षस्य अर्दनं = शीर्षार्तिः । 'श्वादिभ्यः' (५।३।९२) क्तिप्र० →ति । 'अघोषे'० (१।३५०) द० → त० ।
[शिरोऽभितप्तिः ] शिरसोऽभितपनं = शिरोऽभितप्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति ।
[चन्दनतक्षा क्रीडा] चन्दनतक्षेति चन्दन 'तक्षौ तनूकरणे' (५७१) तश् । चन्दनास्तक्ष्यन्ते यस्यां सा । बाहुलकात् पुन्नाम्नि विहितोऽपि स्त्रियामपि 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ् भवति, न तु यथा शिरोतिरित्यत्र बाहुलकाद् णको निषिद्धः तथापि क्तिरपि न प्राप्नोति । 'स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ' (न्या०सं०वक्ष०(२)/सूत्र (५५)) इति न्यायात्, इत्याह-'बहुलाधिकारादिति' बहुलाधिकारादेव चार्तिरित्यत्रार्दतेरर्दयतेश्च यथाक्रममप्रत्ययमनप्रत्ययं च बाधित्वा क्तिरेव भवति ।
पुंसि च -
[अरोचकः] 'रुचि अभिप्रीत्यां च' (९३८) रुच, नपूर्व० । अरोचनं - न रोचतेऽस्मिन्निति वा = अरोचकः । अनेन णकप्र० → अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'नजत्' (३।२।१२५) न० → अ० ।।
[अनाशकः] 'अशश् भोजने' (१५५८) अश्, नपूर्व० । नाश्नाति-नाश्यतेऽस्मिन्निति वा = अनाशकः । अनेन णकप्र० → अक । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । 'अन् स्वरे' (३।२।१२९) अन् ।
[उत्कन्दकः] 'कदु रोदनाह्वानयोः' (३१५) कद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) कन्द, उत्पूर्व० । अथवा 'स्कन्दं गति-शोषणयो' (३१९) स्कन्द, उत्पूर्व० । उत्कन्दनमुत्कन्द्यन्तेऽस्मिन् वा - यद्वा उत्स्कन्दनमुत्स्कद्यतेऽनेनेति वा = उत्कन्दकः । अनेन णकप्र० → अक । 'पृषोदरादयः' (३।२।१५५) सलोपः ।
[ उत्कर्णकः] 'कर्णण भेदे' (१८७२) कर्ण, उत्पूर्व० । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । उत्कर्ण्यतेऽनेनेति उत्कर्णकः । अनेन णकप्र० → अक । 'णेरनिटि (४।३।८३) णिच्लोपः ॥छ।।
卐 न्यायसंग्रहे - 'स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ' (२०५५) इति न्यायसूत्रे 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org