SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ २३५ [समज्या] 'अज क्षेपणे च' (१३९) अज्, सम्पूर्व० । समजनं-समजत्यस्यामिति वा = समज्या । अनेन क्यप्र० → य । 'आत्' (२।४।१८) आप्प्र० → आ । निपनिषदेति संहितानिर्देशात् पतेः पदेश्च ग्रहणम् । [निपत्या] 'पत्लु गतौ' (९६२) पत्, निपूर्व० । निपतनं-निपतन्त्यस्यामिति वा = निपत्या । अनेन क्यप्प्र० → य । 'आत्' (२।४।१८) आप्प्र० → आ। [निपद्या] 'पदिच् गतौ' (१२५७) पद्, निपूर्व० । निपदनं-निपद्यन्तेऽस्यामिति वा = निपत्या । अनेन क्यप्प्र० → य । 'आत्' (२।४।१८) आप्प्र० → आ। [निषद्या] 'षद्लू विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै'० (२३।९८) सद्, निपूर्व० । निषदनंनिषीदन्त्यस्यामिति वा = निपत्या । अनेन क्यपप्र० → य । 'आत' (२।४।१८) आपप्र० →आ। 'सदोऽप्रते: परोक्षायां त्वादेः' (२।३।४४) षत्वम् । [शय्या ] 'शी स्वप्ने' (११०५) शी । शयनं-शेरतेऽस्यामिति वा = शय्या । अनेन क्यप्प्र० → य । 'क्ङिति यि शय्' (४।३।१०५) “शय्"आदेशः । 'आत्' (२।४।१८) आप्प्र० → आ । [सुत्या ] 'डुंगट् अभिषवे' (१२८६) षु । 'षः सोऽष्ट्य-ष्ठिव-ष्वष्कः (२।३।९८) सु । सवनं-सुन्वन्त्यस्यामिति वा = सुत्या । अनेन क्यप्र० → य । 'हुस्वस्य'० (४|४|११३) तोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । [विद्या] 'विदक् ज्ञाने' (१०९९) विद् । वेदनं-विदन्ति तस्यां तया वा हिताहितमिति विद्या । अनेन क्यप्प्र० → य । 'आत्' (२।४।१८) आप्प्र० → आ। [चर्या ] 'चर भक्षणे च' (४१०) चर् । चरणं-चरन्त्यनया वा = चर्या । अनेन क्यप्प्र० → य । 'आत्' (२।४।१८) आप्प्र० → आ। [मन्या ] बुधि (१२६२) - ‘मनिच् ज्ञाने' (१२६३) मन् । मननं-मन्यतेऽनयेति वा = मन्या । अनेन क्यप्प्र० → य । 'आत्' (२।४।१८) आप्प्र० → आ। [इत्या ] 'इंण्क् गतौ' (१०७५) इ । अयनमेत्यनयेति वा = इत्या । अनेन क्यप्प्र० → य । 'हस्वस्य'० (४।४।११३) तोऽन्तः । 'आत्' (२।४।१८) आप्प्र० → आ । [संवीतिः] 'अज क्षेपणे च' (१३९) अज्, संपूर्व० । समजनं = संवीतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० । 'अघक्य बल'० (४।४।२) अज्० → वी० ।। [निपत्तिः ] आ(नि)पतनं आ(नि)पदनं वा=आ(नि)पत्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । [निषत्तिः ] निषदनं = निषत्तिः । क्तिप्र० → ति । 'अघोषे'० (१।३५०) द० → त० । 'सदोऽप्रते: परोक्षायां त्वादेः' (२।३।४४) षत्वम् ॥छ।। कृगः शच वा ।।५।३।१०० ॥ [कृगः] कृग् पञ्चमी ङसि ।। [श] श प्रथमा सि । सूत्रत्वात् लोपः । [च] च प्रथमा सि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy