SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्ढिकायां । इ० । [ उपस्थितिः ] उपस्थानं = उपस्थितिः । अनेन क्तिप्रति । 'दो-सो-मा-स्थ इ: ' ( ४|४|११) आ० [ आस्था ] आस्थानं = आस्था । 'उपसर्गादात:' ( ५|३|११०) अप्र० अ । 'इडेत् - पुसि चाऽऽतो लुक् ' (४।३।९४) आलुक् । 'आत्' (२।४।१८) आप्प्र० आ । २३४ [ व्यवस्था] व्यवस्थानं = व्यवस्था । 'उपसर्गादात:' (५|३|११०) अप्र० अ । 'इडेत् - पुसि '० (४।३।९४ ) आलुक् । 'आत्' (२।४।१८) आप्प्र० आ । [ संस्था ] संस्थानं = संस्था । शेषं पूर्ववत् ॥छा आस्यटि-व्रज्-यजः क्यप् ॥५।३।९७ ॥ [ आस्यटिव्रज्यज: ] आसिश्च अटिश्च व्रज् च यज् च = आस्यटिव्रज्यज्, तस्मात् । [ क्यप् ] क्यप् प्रथमा सि । [ आस्या ] 'आसिक् उपवेशने' (१११९) आस् । आसनं = आस्या । अनेन क्यप्प्र० य । 'आत्' (२|४|१८) आप्प्र० आ । [ अट्या ] 'अट गतौ' (१९४) अट् । अटनं = अट्या । अनेन क्यप्प्र०य । 'आत्' (२।४।१८) आप्प्र० → आ । [ व्रज्या ] धृज (१३०) धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - ध्रज (१३४) - ध्रजु (१३५) - वज (१३६) - 'व्रज गतौ ' (१३७) व्रज् । व्रजनं = व्रज्या । अनेन क्यप्प्र०य । 'आत्' (२|४|१८) आप्प्र० आ । [इज्या ] ‘यजीं देवपूजा - सङ्गतिकरण - दानेषु' (९९१) यज् । यजनं = इज्या । अनेन क्यप्प्र०य । 'यजादि - वचे: किति' (४|१|७९) य्वृत् यस्य इ० । 'आत्' (२।४।१८) आप्प्र० आ । भृगो नाम्नि ॥ ५ ॥३॥९८ ॥ - [ भृगः ] भृग् पञ्चमी ङसि । [ नाम्नि ] नामन् सप्तमी ङि । [ भृत्या ] 'टुडुभृंगक् पोषणे च' (१९४०) भृ । 'भृंग् मरणे' (८८६) भृ । भरणं य । 'ह्रस्वस्य'० (४|४|११३) तोऽन्तः । 'आत्' (२|४|१८) आप्प्र० आ । [ भृतिः ] भरणं भृतिः । श्रवादिभ्यः' (५।३।९२) क्तिप्र० ति । [ भार्या वधूः ] ध्रियत इति भार्या वधूः । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) घ्यण्प्र० य । 'नामिनोऽकलिहले:' ( ४।३।५१) वृद्धिः आर् । 'आत्' (२।४।१८) आप्प्र० आ । समज-निपत्-निषद्-शीङ् - सुग् - विदि- चरि-मनीणः ॥५॥३॥९९ ॥ षद् [ समजनिपनिषद्शीसुविदिचरिमनीणः ] सम्पूर्वः अजः = समज:, निपूर्वः पत् = निपत्, निपूर्व: निषद्, समजश्च निपत् च निषद् च शीङ् च सुग् च विदिश्च चरिश्च मनिश्च इण् च समजनिपनिषद्शीसुविदिचरिमनीण्, तस्मात् । = = योगविभागाद् भाव एवेति निवृत्तम् । Jain Education International = For Private Personal Use Only = भृत्या । अनेन क्यप्प्र० → www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy