SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ २२३ [निकेचायः] भृशं पुनः पुनर्वा निचिनोति । 'व्यञ्जनादेरेकस्वराद्'० (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । निचेचयनं = निकेचायः । अनेन घप्र० → अ - चस्य कत्वं च । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ॥छ।। ___ सोनूवें ॥५।३।८० ॥ [सङ्के] सङ्घ सप्तमी ङि । [अनूज़ ] न विद्यते कुतश्चिदूर्ध्वमुपरि किञ्चिद् यस्मिन् सोऽनूर्ध्वः, तस्मिन् । 'अन् स्वरे' (३।२।१२९) अन् । [वैयाकरणनिकायः] निपूर्व० 'चिंग्ट् चयने' (१२९०) चि । निचयनं = निकायः । अनेन घञ्प्र० → अ - चस्य कत्वं च । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । वैयाकरणानां निकायः = वैयाकरणनिकायः । [तार्किकनिकायः] तार्किकाणां निकायः = तार्किकनिकायः । [सारसमुच्चयः] सम्-उत्पूर्व०, चि । सागरा(रा)णां समुच्ययनं = सारसमुच्ययः । 'युवर्ण-वृ-दृ-वश'. (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [प्रमाणसमुच्चयः] सम्-उत्पूर्व० चि । प्रमाणानां समुच्चयनं = प्रमाणसमुच्चयः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [सूकरनिचयः] सूकरा उपर्युपरि चीयन्ते । नियमन(निचयनं) = निचयः । सूकराणां निचयः = सूकरनिचयः । पूर्वेणाऽपि न भवति व्यावृत्तिबलात् । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए। 'एदैतोऽयाय' (१।२।२३) अय् ॥छ।। माने ॥५॥३८१ ॥ [माने] मान सप्तमी ङि । मानमियत्ता, सा च द्वेधा, संख्या-परिमाणं च । ऊर्ध्वमानं किलोन्मानं, परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्, संख्या बाह्या तु सर्वतः ॥ १ ॥ [एको निघासः] एक प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । निपूर्व० 'अदं भक्षणे' (१०५९) अद् । न्यदनं = निघासः । अनेन घप्र० → अ । 'घस्ल सनद्यतनी-घरचलि' (४|४|१७) अद्० → घस्० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा सि ।। [द्वौ निघासौ] द्वि । औ । निपूर्व० 'अदं भक्षणे' (१०५९) अद् । न्यदने = निघासौ । अनेन घञ्प्र० → अ । 'घस्लु सनद्यतनी-घचलि' (४।४।१७) अद्० → घस्० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । प्रथमा औ । [एकस्तण्डुलावक्षायः] अवपूर्व० "क्षिं क्षये' (१०) क्षि । अवक्षयणं = अवक्षायः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । तण्डुलानामवक्षायः = तण्डुलावक्षायः । [एकस्तण्डुलनिश्चायः] नितरां चीयते = निश्चायः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (शरा२३) आय् । तण्डुलानां निश्चायः = तण्डुलनिश्चायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy