SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्ढिकायां । उपायान्तरेणापि पुष्पादः (?) (पुष्पादिप्रापणे) पुष्पप्रचाय इति दृश्यते तत् कथं लभ्यते इत्याशङ्काऽऽह हस्तप्राप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते, तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । २२२ [ पुष्पप्रचाय: ] प्र 'चिंग्ट् चयने' (१२९०) चि । प्रचयनं = प्रचायः । अनेन घञ्प्र० अ । 'नामिनोऽकलिहले:' (४।३।५१) वृ० ऐ। 'एदैतोऽयाय् ' (१।२।२३) आय् । पुष्पाणां प्रचायः = पुष्पप्रचायः । [ फलावचाय: ] अवचयनं = अवच्चायः । फलानामवचायः = फलावचायः । [ फलोच्चायः ] उच्चयनं = उच्चाय: । अनेन घञ्प्र० अ । फलानामुच्चायः = फलोच्चायः । [ फलोच्चयः ] उच्चयनं = उच्चयः । 'युवर्ण-वृ-दृ-वश' ० (५।३।२८) अल्प्र० अ । 'नामिनो' ० (४।३।१) गु० ए । एदैतोऽयाय्' (१।२।२३) अय् । फलानामुच्चयः = फलोच्चयः । [ पुष्पप्रचयं करोति तरुशिखरे ] प्रचयनं = प्रचय: । 'युवर्ण-वृ-दृ-वश' ० (५।३।२८) अल्प्र० 'नामिनो' ० (४।३।१) गु० ए । एदैतोऽयाय् ' (१२।२३) अय् । पुष्पाणां प्रचयः = पुष्पप्रचयः, तम् । हस्तप्राप्यशब्देन प्रमाणमप्युच्यते यद्धस्ते संभवति न हस्तादतिरिच्यते इति, ततश्च 'माने' (५।३।८१) इत्यनेनैव सिद्धे नियमार्थं वचनम् अस्तेय एवेति |||| - तम् - [च] च प्रथमा सि । 'अव्ययस्य' (३|२|७) सिलुप् । [ आदेः ] आदि षष्ठी ङस् । चीयत इति चितिर्यज्ञेऽग्निविशेषः, तदाधारो वा । देहः शरीरम् । आवासो उपसमाधानमुपर्युपरि राशीकरणम् । चिति-देहा -ऽऽवासोपसमाधाने कश्चाऽऽदेः ॥५॥३७९ ॥ [चितिदेहाऽऽवासोपसमाधाने ] चितिश्च देहश्च आवासश्च उपसमाधानं च = चितिदेहाऽऽवासोपसमाधानम्, तस्मिन् । [कः ] क प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । अ । - Jain Education International = [ आकायमग्नि चिन्वीत ] 'चिंग्ट् चयने' (१२९०) चि, आङ्पूर्व० । आसमन्तात् चीयते समिदादिभिरिति कायः, आकायमग्निम् । अनेन घञ्प्र० अ चस्य कत्वं च । 'नामिनोऽकलि-हले:' ( ४|३|५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । 'चिंग्ट् चयने' (१२९०) चि । सप्तमी ईत । 'स्वादेः नुः' (३।४।७५) श्नुप्र० नु । 'इवर्णादेरस्वे' ० (१।२।२१) वत्वम् । [ कायः शरीरम् ] चीयते आहारेणेति कायः शरीरम् । [ ऋषिनिकाय: ] निचीयते तृणादिभिरिति निकायः । ऋषीणां निकाय: = ऋषिनिका: । एत्य वसन्त्यस्मिन्निति आवास इत्यर्थः । 'व्यञ्जनाद् घञ्' (५|३|१३२) घञ्प्र० अ । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः । निवासः । [ गोमयनिकायः ] नितरां चीयते = निकायः । गोः पुरीषं = गोमयम् । 'गोः पुरीषे' (६।२।५०) मयट्प्र० मय । गोमयानां निकायः = गोमयनिकायः । उपसमाधीयते साराणां उपसमाधानमित्यर्थः । [ काष्ठनिचय: ] निचीयते = निचय: । 'युवर्ण-वृ-दृ-वश' ० (५।३।२८) अल्प्र० अ । 'नामिनो' ० (४|३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । काष्ठानां निचयः = काष्ठनिचयः । चः क इत्येव सिद्धे आदिग्रहणमादेरेव यथा स्यात्, तेन चेर्यङ्लुपि For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy