SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ २२१ परेः क्रमे ॥५३७६ ॥ [परेः] परि पञ्चमी ङसि । [क्रमे] क्रम सप्तमी ङि। क्रमः - परिपाटी। [तव पर्यायो भोक्तुम् ] तव षष्ठ्यन्तं पदम् । 'इंण्क् गतौ' (१०७५) इ, परिपूर्व० । पर्ययणं = पर्यायः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । 'भुजंप् पालनाऽभ्यवहारयोः' (१४८७) भुज् । भोजनाय = भोक्तुम् । 'क्रियायां क्रियार्थायां तुम्'० (५।३।१३) तुमप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे'० (१।३।५०) ग० → क० । [मम पर्यायो भोक्तुम् ] मम षष्ठ्यन्तं पदम् । शेषं पूर्ववत् । क्रमेण पदार्थानां क्रियासंबंधः = पर्यायः । [पर्ययः स्वाध्यायस्य] पर्ययणं = पर्ययः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । स्वाध्यायस्य । अतिक्रम इत्यर्थः । [विपर्ययो मतेः] विपर्ययणं = विपर्ययो मतेः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अलप्र० → अ । 'नामिनो'. (४।३.१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । अन्यथाभवनमित्यर्थः ।।छ।। व्युपात् शीङः ॥५३७७ ॥ [व्युपात्] विश्च उपश्च = व्युपम्, तस्मात् । [शीङः] शीङ् पञ्चमी ङसि । [तव राजविशायः] 'शी स्वप्ने' (११०५) शी, विपूर्व० । विशयितुं पर्यायः = विशायः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । राज्ञि विशायः = राजविशायः । [मम राजोपशायः] उपशयितुं पर्यायः = उपशायः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । राज्ञि उपशायः = राजोपशायः । क्रमप्राप्तं पर्यायसाध्यं शयनमुच्यते । [विशयः] विशयनं = विशयः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [उपशयः] उपशयनं = उपशयः । शेषं "विशयः" वत् ॥छ।। हस्तप्राप्ये चेरस्तेये ॥५।३७८ ॥ [हस्तप्राप्ये] हस्तेनोपायान्तरनिरपेक्षेण प्राप्तुं शक्यं = हस्तप्राप्यम्, हस्तेनैव प्राप्तुं शक्यमित्यर्थः, तस्मिन् । [चेः] चि पञ्चमी ङसि । [अस्तेये] न स्तेयोऽस्तेयस्तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy