SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । किरो धान्ये ॥५३७३ ॥ [किरः] किर् पञ्चमी ङसि । [धान्ये] धान्य सप्तमी ङि। [निकारो धान्यस्य ] 'कृत् विक्षेपे' (१३३४) कु, निपूर्व० । निकीर्यते = निकारः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । धान्यस्य । [ उत्कारो धान्यस्य] 'कृत् विक्षेपे' (१३३४) कृ, उत्पूर्व० । उत्कीर्यते = उत्कारः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । धान्यस्य, राशिरित्यर्थः । निकारस्तिरस्कार इति करोतेर्घञ् । [फलनिकरः] निकरणं = निकरः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । फलानां निकरः = फलनिकरः । [पुष्पोत्करः] उत्करणं = उत्करः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो' ० . (४।३।१) गु० अर् । पुष्पाणां उत्करः = पुष्पोत्करः ॥छ।। नेषुः ॥५।३।७४ ॥ [नेः] नि पञ्चमी ङसि । [वुः] वृ पञ्चमी ङसि । 'ऋतो डुर्' (१।४।३७) डुर्० → उ० । 'डित्यन्त्यस्वरादेः' (२।२।११४) ऋलोपः । [नीवारा नाम व्रीहिविशेषाः] 'वृश् सम्भक्तौ' (१५६७) वृ । 'वृकुट् वरणे' (१२९४) वृ, निपूर्व० । नितरां व्रियन्ते-याच्यन्ते तपस्विभिरिति नीवारा नाम व्रीहयः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर्। 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घत्वम् ।। [निवरा कन्या] निवियते = निवरा कन्या । 'युवर्ण-वृ-दृ-वश'. (५।३।२८) अल्प्र० → अ । 'नामिनो'. (४।३।१) गु० अर् । 'आत्' (२।४।१८) आप्प्र० → आ । स्वभावादलन्तोऽप्ययं स्त्रियां वर्तते । क्तिस्तु बहुलाधिकारान्न भवति ॥छ। इणोऽभेषे ॥५३७५ ॥ [इणः] इण् पञ्चमी ङसि । [अभ्रेषे] न भ्रषः = अभ्रेषस्तस्मिन् । स्थितेरचलनमभ्रेषः । [न्यायः] 'इंण्क् गतौ' (१०७५) इ, निपूर्व० । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं = न्यायः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । [न्ययं गतश्चौरः] न्ययनं = न्ययः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अलप्र० → अ । 'नामिनो'० (४।३।१) गु० ए। 'एदैतोऽयाय' (१।२।२३) अय । गत प्रथमा सि । चौरः ॥छा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy