________________
पञ्चमाध्यायस्य तृतीयः पादः॥
छन्दोनाम्नि ॥५।३७० ॥ [छन्दोनाम्नि ] छन्दसां नाम = छन्दोनाम, तस्मिन् । छन्दः - पद्यो वर्णविन्यासः ।
[विष्टारपङ्क्तिः ] विस्तरणं = विष्टारः । विष्टारस्य पङ्क्तिः = विस्टारपङ्क्तिः । अनेन घप्र० → अ । 'वेः स्त्रः' (२।३।२३) षत्वम् । 'तवर्गस्य श्चवर्ग' (१।३६०) तस्य टः । पङ्क्तिपर्यन्तं छन्दोनामेति वाक्यावस्थायां घञ् न प्राप्नोतीति ॐ विष्ट(ष्टा)रश्चासौ पङ्क्तिश्चेति कर्मधारयः षष्ठी-पञ्चमीतत्पुरुषो वा ।
[आस्तारपङ्क्तिः ] आस्तरणं = आस्तारः । 'भावा-ऽकोंः' (५।३।१८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । आस्तारस्य पङ्क्तिः = आस्तारपङ्क्तिः ।
[प्रस्तारपङ्क्तिः छन्दोनाम ] प्रस्तरणं = प्रस्तारः । 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ । 'नामिनोऽकलिहलेः' (४।३।५१) वृ० आर् । प्रस्तारस्य पङ्क्तिः = प्रस्तारपङ्क्तिः छन्दोनाम ॥छ।।
क्षु-श्रोः ॥५।३७१ ॥ [क्षुश्रोः] क्षुश्च श्रुश्च = क्षुश्रु, तस्मात् ।
[विक्षावः ] 'टुक्षु शब्दे' (१०८४) क्षु, विपूर्व० । विक्षवणं = विक्षावः । अनेन घप्र० → अ । 'नामिनोऽकलिहलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[विश्रावः ] 'श्रृंट् श्रवणे' (१२९६) श्रु, विपूर्व० । विश्रवणं = विश्रावः । अनेन घप्र० → अ। 'नामिनोऽकलिहलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ।
[क्षवः] क्षवणं = क्षवः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[श्रवः] श्रवणं = श्रवः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ॥छ।।
न्युदो ग्रः ॥५।३।७२ ॥ [न्युदः] निश्च उद् च = न्युन, तस्मात् । [ग्रः] ग पञ्चमी ङसि । 'इवर्णादेरस्वे'० (१।२।२१) रत्वम् ।
[निगारः] 'गृत् निगरणे' (१३३५) ग । 'गृश् शब्दे' (१५३८) ग, निपूर्व० । निगरणं = निगारः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् ।
[ उद्गारः] उद्गीर्यते = उद्गारः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० आर् ।
[संगरः] संगीर्यते - अभ्युपगम्यते योद्धृभिरिति संगरो युद्धम् । 'युवर्ण-वृ-दृ-वश'. (५।३।२८) अल्प्र० → अ। 'नामिनो'० (४।३।१) गु० अर् ॥छा।
ॐ श० म० न्या० - विस्तारश्चासौ पङ्क्तिश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org