SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [प्रस्तावः] 'ष्टुंगा स्तुतौ' (११२४) ष्ट । 'षः सोऽष्ट्यै'० (२।३।९८) स्तु । निमित्ताभावे'० (न्या० सं० वक्ष० (१)/सूत्र(२९)) स्तु, प्रपूर्व० । प्रस्तवनं = प्रस्तावः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [स्रवः ] स्रवणं = स्रवः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ। 'ओदौतोऽवाव्' (१।२।२४) अव् । [ द्रवः] द्रवणं = द्रवः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो गुणो०' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [स्तवः ] स्तवनं = स्तवः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [स्त्रावः] स्रवणं = स्रावः । बहुलाधिकारादनेनैव घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ॥छ।। अयज्ञे स्त्रः ॥५।३।६८ ॥ [अयज्ञे] न यज्ञः = अयज्ञस्तस्मिन् । [स्त्रः] स्तू पञ्चमी ङसि । 'इवर्णादेरस्वे'० (१।२।२१) रत्वम् । [प्रस्तारः] 'स्तृगश् आच्छादने' (१५२१) स्तृ, प्रपूर्व० । प्रस्तरणं = प्रस्तारः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । [ मणिप्रस्तारः] मणीनां प्रस्तारः = मणिप्रस्तारः । [विमानप्रस्तारः] विमानानां प्रस्तारः = विमानप्रस्तारः । [नयप्रस्तारः] नयस्य-नयानां वा प्रस्तारः = नयप्रस्तारः । [बर्हिष्प्रस्तरः] प्रस्तरणं = प्रस्तरः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । बर्हिषां प्रस्तरः = बर्हिष्प्रस्तरः । 'समासेऽसमस्तस्य' (२।३।१३) षत्वम् ॥छ।। वेरशब्दे प्रथने ॥५।३।६९ ॥ [वेः] वि पञ्चमी ङसि । [अशब्दे] न शब्दोऽशब्दस्तस्मिन् । [प्रथने] प्रथते = प्रथनम्, तस्मिन् । प्रथनं - विस्तीर्णता । [विस्तारः पटस्य] विस्तरणं = विस्तारः । अनेन घप्र० + अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । पटस्य । [तृणस्य विस्तरः] विस्तरणं = विस्तरः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० अर् । तृणस्य छादनमित्यर्थः । [अहो द्वादशाङ्गस्य विस्तरः] अहो प्रथमा सि । 'अव्ययस्य' (३२१७) सिलुप् । द्वादशाङ्गस्य । विस्तरणं = विस्तरः । 'युवर्ण-वृ-दृ०' (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० अर् ॥छा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy