SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ २१७ [अवज्ञाने] अवज्ञायतेऽवज्ञानम् । 'अनट्' (५।३।१२४) अनट्प्र० → अन । तस्मिन् = अवज्ञाने । सप्तमी ङि । [वा] वा प्रथमा सि । अवज्ञानमसत्कारपूर्वकोऽवक्षेपः । [परिभावः, परिभवः] 'भू सत्तायाम्' (१) भू, परिपूर्व० । परिभवनं = परिभावः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । एवम्- परिभवः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ओ। 'ओदौतोऽवाव्' (१।२।२४) अव् । [परिभवः] समन्ताद् भवनं = परिभवः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । 'नामिनो' ० (४।३।१) गु० ओ। 'ओदौतोऽवाव् (१।२।२४) अव् ॥छ।। यज्ञे ग्रहः ॥५।३६५ ॥ [यज्ञे] यज्ञ सप्तमी ङि । [ग्रहः ] ग्रह पञ्चमी ङसि । [पूर्वपरिग्राहः ] परिग्रहणं = परिग्राहः । पूर्वस्याः परिग्राहः = पूर्वपरिग्राहः । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् । [उत्तरपरिग्राहः ] परिग्रहणं = परिग्राहः । उत्तरस्याः परिग्राहः = उत्तरपरिग्राहः । 'सर्वादयोऽस्यादौ' (३।२।६१) पुंवत् । वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष एताभ्यामभिधीयते । [परिग्रहः कुटुम्बिनः ] परिग्रहणं = परिग्रहः । 'युवर्ण-वृ-दृ'० (५।३।२८) अल्प्र० → अ । कुटुम्बिन् षष्ठी ङस् ॥छ।। संस्तोः ॥५।३।६६ ॥ [संस्तोः ] सम्पूर्वः स्तुः = संस्तु, तस्मात् । [संस्तावश्छन्दोगानाम् ] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्ठिव'० (२।३।९८) स्तु । 'निमित्ताभावे'० (न्या०सं०वक्ष०(१)/सूत्र(२९)) स्तु, सम्पूर्व० । संस्तवनं = संस्तावः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । छन्दस् कैं (३६) - "मैं शब्दे' (३७) गै। 'आत् सन्ध्यक्षरस्य' (४।२।१) गा। छन्दो गायन्ति = छन्दोगास्तेषाम् = छन्दोगानाम् । 'गायोऽनुपसर्गाट्टक् (५।१।७४) टक्प्र० → अ । 'इडेत् - पुसि'० (४।३।९४) आलुक् । समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्ताव उच्यते । [संस्तवोऽन्यदृष्टे] संस्तवनं = संस्तवः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ ॥छ।। प्रात् त्रु-द्रु-स्तोः ॥५।३।६७ ॥ [प्रात् ] प्र पञ्चमी ङसि । [शुद्रुस्तोः ] स्रुश्च द्रुश्च स्तुश्च = सुदुस्तु, तस्मात् । [प्रस्रावः] इं (११) - दुं (१२) - हूँ (१३) - शुं (१४) - 'झुं गतौ' (१५) सु, प्रपूर्व० । प्रस्रवणं = प्रस्रावः । अनेन घञ्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [प्रद्रावः] इं (११) - दूं (१२) - 'द्वं गतौ' (१३) द्व, प्रपूर्व० । प्रद्रवणं = प्रद्रावः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) ७० औ । 'ओदौतोऽवाव्' (१२।२४) आव् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy