SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [अनुपसर्गात् ] न विद्यते उपसर्गो यस्य सः अनुपसर्गस्तस्मात् । [वा] वा प्रथमा सि । [नयः, नायः] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी । नयनं = नयः । 'युवर्ण-वृदृ-वश'० (५।३।२८) अल्प्र० → अ । एवम्-नायः । अनेन घञ्प्र० → अ । शेषं पूर्ववत् । [यवः, यावः] यवनं = यवः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अलप्र० → अ । एवम्-यावः । अनेन घप्र० → अ । शेषं पूर्ववत् । [दवः, दावः ] दवनं = दवः - दावः । शेषं पूर्ववत् । [द्रवः, द्रावः] द्रवणं = द्रवः - द्रावः । शेषं पूर्ववत् । [प्रणयः] प्रणयनं = प्रणयः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए। 'एदैतोऽयाय्' (१।२।२३) अय् । 'अदुरुपसर्गान्तरो ण'० (२।३७७) णत्वम् । वोदः ॥५॥३॥६१ ॥ [वा] वा प्रथमा सि । [उदः] उद्(त्) पञ्चमी ङसि । [उन्नायः, उन्नयः] उन्नयनं = उन्नायः । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । एवम् - उन्नयः । 'युवर्ण-वृ-दृ-वश'० (५।३।२८) अल्प्र० → अ । 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ॥छ।। __ अवात् ॥५।३।६२ ॥ [अवात्] अव पञ्चमी ङसि । [अवनायः] अवनयनं = अवनायः । अनेन घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् ॥छ।। परे ते ॥ ५।३।६३ ॥ [परेः] परि पञ्चमी ङसि । [द्यूते ] द्यूत सप्तमी ङि । विजिगीषया आख्यादिपातो द्यूतम् । [परिणायेन शारीन् हन्ति ] परिणयनं = परिणायस्तेन । अनेन घप्र० → अ । 'नामिनोऽकलि-हलेः' (४।३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । 'अदुरुपसर्गान्तरो ण'० (२२३७७) णत्वम् । शारि द्वितीया शस् । 'हनंक हिंसा-गत्योः' (११००) हन् । वर्त० तिव् । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → न० । समन्तान्नयनेनेत्यर्थः । [परिणयः कन्यायाः] परिणयनं = परिणयः । 'युवर्ण-वृ-दृ-वृश'० (५।३।२८) अल्प्र० → अ ॥छ।। भुवोऽवज्ञाने वा ॥५॥३६४ ॥ [भुवः] भू पञ्चमी ङसि । 'धातोरिवर्णोवर्णस्येयुत्'० (२।१।५०) उव् । प. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy