SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ नवा ] नवा प्रथमा सि । [ भव्यः ] 'भू सत्तायाम् (१) भू । भवत्यसाविति । अनेन भव्यनिपातः । [ भव्यमनेन ] भूयते इति भव्यम् । 'य एच्चाऽऽतः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० ओ । 'व्यक्ये' (१।२।२५) अव् । सि-अम् । इदम् तृतीया टा । 'आ द्वेरः ' (२|१|४१) म० अ० । 'लुगस्यादेत्यपदे' (२|१|११३) अलोपः । ' टौस्यन: ' (२|१|३७ ) इद० अन० । 'टाङसोरिन -स्यौ' (१।४।५) टा० इन० । 'अवर्णस्येवर्णादिनैदोदरल्' (११२२६) ए । [ गेयो माणवकः साम्नाम् ] कैं (३६) - 'गैं शब्दे' (३७) गै। 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) गा । गायतीति । अनेन गेयनिपातः । [ गेयानि माणवकेन सामानि ] गीयते (न्ते) = गेयानि । 'य एच्चाऽऽतः' (५।१।२८) यप्र० - आ० ए० । प्रथमा जस् । 'नपुंसकस्य शि: ' (१|४|५५) जस्०शि० इ० । 'स्वराच्छौ' (१|४|६५) नोऽन्तः । ' नि दीर्घः' (१।४।८५) दीर्घः । [जन्य: ] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायतेऽसाविति । अनेन जन्यनिपातः । [जन्यमनेन ] जायते - जन्यत इति जन्यम् । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) घ्यण्प्र०य । 'न जनबध:' ( ४|३|५४) वृद्धिनिषेधः । सि अम् । - [ रम्यः ] 'रमिं क्रीडायाम्' (९८९) रम् । रममाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः । 'अमोऽकम्यमि- चमः ' ( ४ २ २६) ह्रस्वः । रमयत्यसौ रम्यः । अनेन रम्यनिपातः । [ रम्यः ] रम्यते । यप्र० । [ आपात्यः ] 'पत्लृ गतौ ( ९६२) । पत्, आङ्पूर्व० । आपतत्यसाविति । अनेन आपात्यनिपातः । [ आपात्यमनेन] आपत्यत इति आपात्यम् । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५/१/१७) घ्यण्प्र० य । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । सि-अम् । [ आप्लाव्यः ] च्युंङ् (५९४) - ज्युङ् (५९५ ) - जुंङ् (५९६) - पुंङ् (५९७) - 'प्लुंङ् गतौ (५९८) प्लु, आङ्पूर्व० । आप्लवतेऽसाविति । अनेन आप्लाव्यनिपातः । [ आप्लाव्यमनेन] अवश्यं आप्लूयत इति आप्लाव्यम् । 'उवर्णादावश्यके (५।१।१९) घ्यण्प्र० 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'य्यक्ये' (१।२।२५) आव् । सि-अम् ॥छा प्रवचनीयाऽऽदयः || ५|१|८ ॥ = प्रवचनीयाऽऽदयः । प्रथमा जस् । [प्रवचनीयाऽऽदयः ] प्रवचनीय आदिर्येषां ते [प्रवचनीयो गुरुः शासनस्य ] 'वचंक् भाषणे' (१०९६) वच् । 'बूंगूक् व्यक्तायां वाचि' (११२५) ब्रू । प्रवक्ति - प्रब्रूते वा । अनेन अनीयप्र० । 'अस्ति ब्रुवोर्भू - वचावशिति' (४|४|१) ब्रू० वचादेशः । प्रथमा सि । 'सो रुः' (२१/७२ ) स०र० । Jain Education International → य । 5 टिप्पनकम् भवति विशिष्टपरिणामेन इति भव्यः । फ श० म० न्या० - ण्यन्ताद् रमिधातोश्च य एच्चात:' ( ५।१।२८) यप्र० विधीयते । मध्यमवृत्तौ 'शकि- तकि- चति-यति०' (५|१|२९) यप्र० । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy