SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ १९५ बहुलाधिकाराण्णकच् - भविष्यन्त्यावपि भवतः - [कटं कारको व्रजति] कट द्वितीया अम् । करिष्यति = कारकः । ‘क्रियायां क्रियार्थायां तुम् णकच् - भविष्यन्ती' (५।३।१३) णकच्प्र० ।। [ओदनं भोजको व्रजति ] भुज् । भोक्ष्यते = भोजकः । ‘क्रियायां क्रियार्थायां'० (५।३।१३) णकच्प्र० । [काण्डानि लविष्यामीति व्रजति] काण्डानि 'लूगश् छेदने' (१५१९) लू । भविष्यन्ती स्यामि । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ॥छ।। भाववचनाः ॥५।३।१५ ॥ [भाववचनाः] भाव 'वचं भाषणे' (१०९६) वच् । भावं वचन्ति = भाववचनाः । 'नन्द्यादिभ्योऽनः' (५।१।५२) अनप्र० । प्रथमा जस् । भाववचना घञ्-क्त्यादयः । [पाकाय व्रजति] 'डुपचींष् पाके' (८९२) पच् । पक्ष्यते = पाकः, तस्मै । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'क्तेऽनिटश्च-जोः०' (४।१।१११) च० → क० । व्रजति । [पक्तये व्रजति ] पक्ष्यते = पक्तिः, तस्यै । 'गा-पा-पचो भावे' (५।३।९५) क्तिप्र० → ति । व्रजति । [पचनाय व्रजति ] पक्ष्यते = पचनं, तस्मै । अनेन अनट्प्र० → अन । व्रजति । [पाचनायै व्रजति ] पचन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । पाचयिष्यति = पाचनाय, तस्मै । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लुक् । व्रजति । पद-रुज-विश-स्पृशो घञ् ॥५।३।१६ ॥ [पदरुजविशस्पृशः] पदश्च रुजश्च विशश्च स्पृश् च = पदरुजविशस्पृश, तस्मात् । [घञ्] घञ् प्रथमा सि । वय॑तीत्यादि निवृत्तम् । पद-रुजेत्यादि प्रकृतिनियन्त्रितप्रत्ययोपादानात् आदिशब्दात् क्रियार्थायां क्रियायामुपपदे इति च ज्ञेयम् । [पादः ] 'पदिच् गतौ' (१२५७) पद् । पद्यते-पत्स्यते-अपादि-पेदे वा = पादः । अनेन घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।। [रोगः] 'रुजोत् भङ्गे' (१३५०) रुज् । रुजति - रोक्ष्यति - अरौक्षीत्-रुरोज वा = रागः । अनेन घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिट०' (४।१।१११) ज० → ग० । [वेशः ] 'विशंत् प्रवेशने' (१४१५) विश् । विशति-वेक्ष्यति-अविक्षत्-विवेश वा = वेशः । अनेन घप्र० → अ० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। [स्पर्शी व्याधिविशेषः ] 'स्पृशंत् संस्पर्श' (१४१२) स्पृश् । स्पृशति-स्पृक्ष्यति-अस्पाक्षीत्-पस्पर्श वा = स्पर्शः । अनेन घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । घकारः कत्व-गत्वार्थः । अकारो वृद्ध्यर्थः ॥छ।। सर्तेः स्थिर-व्याधि-बल-मत्स्ये ॥५।३।१७ ॥ [सर्तेः ] सति पञ्चमी ङसि ।। [स्थिरव्याधिबलमत्स्ये] स्थिरश्च व्याधिश्च बलं च मत्स्यश्च = स्थिरव्याधिबलमत्स्यम्, तस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy