SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [भिक्षिष्ये इत्यस्य जटाः ] 'भिक्षि याच्ञायाम्' (८८०) भिक्षु । भविष्यन्ती स्ये । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नाम्यन्तस्था - कवर्गात् ' ० (२।३।१५) षत्वम् । इति प्रथमा सि । 'अव्ययस्य' ( ३।२७) सिलुप् । इदम् षष्ठी ङस् → अस्० । 'आ द्वेर: ' (२|१|४१) म० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'अनक्' (२१३६) इत्यनेन इदस्थाने अ० । टाङसोरिन - स्यौ' (१।४।५) ङस् स्य०, जटाः । १९४ [ धावतस्ते पतिष्यति वासः ] 'धावूग् गति - शुद्ध्योः' (९२०) धाव् । धावतीति धावत् । 'शत्रानशावेष्यति' ० (५।२।२०) शतृप्र० अत् । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक्, तस्य । युष्मद् षष्ठी ङस् । ‘ङे-ङसा ते - मे' (२।१।२३) युष्मदः "ते" आदेशः । पतिष्यति । वासस् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । अत्रास्ति धावनक्रियोपपदं न त्वसौ पतनार्थमुपात्तेति न भवति । 'णक-तृचौ' (५।१।४८ ) इति सामान्येन सिद्धे क्रियार्थोपपदभाविन्या भविष्यन्त्या बाधा मा भूदिति णकज्विधानम् । [ ओदनस्य पाचको व्रजति ] 'डुपचष् पाके' (८९२) पच् । पचतीति पाचक: । 'णक-तृचौ' (५|१|४८) णकप्र० → अक० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [ पक्ता व्रजति ] पचतीति । 'णक - तृचौ' (५।११४८) तृच्प्र० तृ० । [पचो व्रजति ] पचतीति पच: । 'अच्' (५|१|४९) अच्प्र० अ । [ विक्षिपो व्रजति ] 'क्षिपत् प्रेरणे' (१३१७) क्षिप्, विपूर्व० । विक्षिपतीति विक्षिपः । 'नाम्युपा० (५/१/५४) कप्र० अ ॥छ । कर्मणोऽण् ॥५।३।१४ ॥ [ कर्मण: ] कर्मन् पञ्चमी ङसि । 'र- षृवर्णान्नो ण ' ० (२|३|६३ ) णत्वम् । [ अण् ] अण् प्रथमा सि । [ कुम्भकारो व्रजति ] कुम्भ 'डुकृंग् करणे' (८८८) कृ । कुम्भं करिष्यन्ति ( करिष्यामि) । अनेन अण्प्र० → अ । 'नामिनोऽकलि हले:' ( ४|३|५१) वृद्धिः आर् । [ काण्डलावो व्रजति ] काण्ड 'लूग्श् छेदने' (१५१९) लू । काण्डं लविष्यामि = काण्डलावः । अनेन अणूप्र० → अ । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'कर्मणोऽण्' (५।१।७२) इति सामान्येन विहितोऽण् णकचाऽनेन बाध्येत, असरूपविधिश्च नास्तीति पुनर्विधीयते, सोऽपवादत्वाण्णकचं बाधते, परत्वात् सामान्यस्याऽणो बाधकान् टगादीनपि, तेन [ वक्रगायो व्रजति ] वक्र कैं (३६) (गास्यामि) = वक्रगाय: । अनेन अण्प्र० (१।२।२३) आय्, व्रजति । - 'गैं शब्दे' (३७) गै। 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) गा । वक्रं गास्यति अ । 'आत ऐः कृञ्ञ' (४|३|५३) आ० ऐ० । 'एदैतोऽयाय्' Jain Education International [ सुरापायो व्रजति ] सुरां पास्यामि = सुरापायः । अनेन अण्प्र० अ । 'आत ऐः कृञ्ञौ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय्, व्रजति । - [ गोदायो व्रजति ] गां दास्यामीति गोदायः । अनेन अण्प्र० अ । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आयू, व्रजति । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy