SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १९० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । भविष्यन्ती ॥५।३।४ ॥ [भविष्यन्ती] 'भू सत्तायाम्' (१) भू । भविष्यतीति भविष्यन्ती । 'शत्रानशावेष्यति तु सस्यौ (५।२।२०) शतप्र० → अत् - स्यपूर्व० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था-कवर्गात्'० (२।३।१५) षत्वम् । 'अधातूदुदितः' (२।४।२) ङी । 'अवर्णादश्नोऽन्तो वाऽतुरीड्योः ' (२।१।११५) "अन्त" आदेशः । [भोक्ष्यते] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भविष्यन्ती स्यते । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-ज: क-गम्' (२।११८६) ज० → ग० । 'अघोषे०' (१।३।५०) ग० → क० । 'नाम्यन्तस्था'० (२।३।१५) षत्वम् । क-षयोगे क्ष० । 'भुनजोऽत्राणे' (३।३।३७) इत्यनेन आत्मनेपदम् ॥छ।। अनद्यतने श्वस्तनी ॥५॥३५ ॥ [अनद्यतने ] न विद्यतेऽद्यतनो यत्र स: = अनद्यतनस्तस्मिन् । [श्वस्तनी] श्वस्तनी प्रथमा सि । [कर्ता श्वः ] 'डुकंग करणे' (८८८) कृ । श्वस्तनी ता । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । श्वस् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । व्यामिश्रे मा भूत् - [अद्य श्वो वा गमिष्यति] अद्य प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । वा प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । अम (३९२) द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । भविष्यन्ती स्यति । 'गमोऽनात्मने' (४।४।५१) इट् । 'नाम्यन्तस्था-कवर्गात्'० (२।३।१५) षत्वम् ॥छा। परिदेवने ॥५॥३६॥ [परिदेवने] परि 'दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । परिदीव्यते = परिदेवनम्, तस्मिन् । परिदेवनमनुशोचनम् । न अद्यतनः = अनद्यतनः, अनद्यतनस्य अर्थः = अनद्यतनार्थ आरम्भः । [इयं नु कदा गन्ता यैवं पादौ निदधाति ?] इदम् प्रथमा सि । 'अयमियं पुं-स्त्रियोः सौ' (२।१।३८) "इयम्"आदेशः । नु प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । किम् । कस्मिन् काले-कदा । 'किम्-यत्-तत्-सर्वैकाऽन्यात् काले दा' (७।२।९५) दाप्र० । 'किमः कस्तसादौ च' (२।११४०) "क"आदेशः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । अम (३९२) - द्रम (३९३) -- हम्म (३९४) - मीम (३९५) 'गम्लुं गतौ' (३९६) गम् । श्वस्तनी ता । 'म्नां धुड्वर्गेऽन्त्यो'० (१।३।३९) अनुस्वारः (म० → न०) । एवम् । पाद औ। 'डुधांग्क् धारणे च' (११३९) धा, निपूर्व० । वर्त० तिव् । 'हवः शिति' (४।१।१२) "धा"द्विः । 'हस्वः' (४।१३३९) हुस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ध० → द० । [अयं नु कदाऽध्येता य एवमनभियुक्तः ] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । श्वस्तनी ता । 'नामिनो'. (४।३।१) गु० ए। विशेषविधानात् कदा-कहियोगलक्षणा विभाषा बाध्यन्ते ॥छ।। परा-यावतोर्वत्तमाना ॥५॥३७॥ [पुरायावतोः ] पुराश्च यावच्च = पुरायावतो, तयोः = पुरायावतोः । सप्तमी ओस् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy