SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ।। १८९ [प्रतिबोधी] प्रतिभोत्स्यत इत्येवंशीलः = प्रतिबोधी । 'अजातेः शीले' (५।१।१५४) णिन्प्र० →इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'इन्-हन्' ० (१।४।८४) दीर्घः । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [प्रतिरोधी] 'रुधूपी आवरणे' (१४७३) रुध् । अवश्यं प्रतिरोत्स्यति । 'णिन् चाऽऽवश्यकाऽधमण्र्ये' (५।४।३६) णिन्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रथमा सि । 'इन्-हन्'० (१।४।८७) दीर्घः । 'दीर्घझ्याब'० (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ॥छ।। वा हेतुसिद्धो क्तः ॥५॥३।२ ॥ [वा] वा प्रथमा सि । [हेतुसिद्धौ ] हेतोः सिद्धिः = हेतुसिद्धिः, तस्याम् । [क्तः] क्त प्रथमा सि । [किं ब्रवीषि वृष्टो देवः संपन्नास्तर्हि शालयः संपत्स्यन्त इति वा] किम् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । 'बॅग्क् व्यक्तायां वाचि' (११२५) ब्रू । वर्त० सिव् । 'ब्रूतः परादिः' ४।३।६३) ईत् → ई । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । जिषू (५२२) - विषू (५२३) - मिषू (५२४) - निषू (५२५) पृषू (५२६) - 'वृषू सेचने' (५२७) वृष् । वर्षति स्म-वृष्टः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'तवर्गस्य श्चवर्ग'० (१।३।६०) तस्य ट० । 'पदिच् गतौ' (१२५७) पद्, सम्पूर्व० । सम्यत्स्यन्ते = संपन्नाः । अनेन क्तप्र० → त । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-तस्य न० । प्रथमा जस् । तद् । तस्मिन् काले = तर्हि । 'अनद्यतने हिं' (७।२।१०१) हिप्र० । आ द्वेरः (२।११४१) द्० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । पक्षे-सम्पत्स्यन्ते । [प्राप्ता नौस्तीर्णा तर्हि नदी तरिष्यत इति वा] 'त प्लवन-तरणयोः' (२७) त । तरिष्यति-तरीष्यति स्म । अनेन क्तप्र० → त । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'भ्वादेर्नामिनो'० (२।१।६३) दीर्घः । 'र- . घुवर्णान्नो ण'० (२।३।६३) णत्वम् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । पक्षे-तरिष्यते ॥छा। कषोऽनिटः ॥५।३।३ ॥ [कषः] कष् पञ्चमी ङसि । [अनिटः] न विद्यते इट् यस्मात् सः = अनिट्, तस्मात् । [कष्टम् ] कष हिंसायाम्' (५०७) कष् । कषिष्यतीति कष्टम् । अनेन क्तप्र० → त । 'तवर्गस्य०' (१।३।६०) त० → ट० । 'कषः कृच्छ्र-गहने' (४|४६७) इत्यनेन इनिषेधः । [कष्टा दिशस्तमसा] कष्ट 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा जस् । दिश् प्रथमा जस् । तमस् तृतीया टा। [कष्टम् ] कषति = कष्टम् । मतान्तरेऽनेन क्तप्र० → त । [कषिताः शत्रवः शरेण] कष्यन्ते स्म = कषिताः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'स्ताद्यशितोऽणादेरिट्' (४।४।३२) इट् । प्रथमा जस् । शत्रु प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । शूर तृतीया टा छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy