SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ अथ पञ्चमाध्यायस्य तृतीयः पादः ॥ वत्स्र्त्स्यति गम्यादिः ॥ ५|३|१ ॥ [ वर्त्स्यति ] 'वृतूङ् वर्त्तने (९५५) वृत् । वर्त्स्यतीति वर्त्स्यत् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० अत् स्यपूर्व० । 'लघोरुपान्त्यस्य ' ( ४|३|४) गु० अर् । 'वृद्भ्यः स्य- सनो:' ( ३।३।४५ ) इत्यनेन परस्मैपदम्, तस्मिन् = वर्त्स्यति । - [ गम्यादिः ] गमी आदिर्यस्य सः = गम्यादिः । प्रथमा सि । [गमी ग्रामम् ] गमिष्यतीति गमी । 'गमेरिन्' (उणा० ९१९) इन्प्र० । अनेन सामान्यतः सिद्धानां प्रत्ययानां भविष्यद्धात्वर्थता विधीयते । [ आगामी ] आगमिष्यतीति आगामी । 'आङश्च णित्' (उणा० ९२०) णिद् इन्प्र० । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । [ भावी ] भविष्यतीति भावी । 'भुवो वा' (उणा० ९२२) णिद् इन्प्र० । 'नामिनोऽकलि-हले:' ( ४/३/५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । प्रथमा सि । 'इन्- हन्' ० (१।४।८७) दीर्घः । 'दीर्घङ्याब्'० (१|४|४५) सिलुक् । 'नाम्नो नोऽनन: ' (२।१।९१) नलुक् । [प्रस्थायी ] प्रकर्षेण स्थास्यते इति प्रस्थायी । 'प्रात् स्थः ' ( उणा० ९२४) णिन्प्र० →इन् । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । प्रथमा सि । 'इन्- हन्' ० (१।४।८७) दीर्घः । 'दीर्घङ्याब्’० (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२|१|९१) नलुक् । [ प्रयायी ] प्रयास्यतीत्येवंशीलः = प्रयायी । 'अजाते: शीले' (५।१।१५४) णिन्प्र० →इन् । 'आत ऐः कृञ्ञौ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । प्रथमा सि । 'इन्- हन्' ० (१।४।८७) दीर्घः । 'दीर्घङ्याब्' ० (१।४।४५) सिलुक् । 'नाम्नो नोऽनन: ' (२|१|९१) नलुक् । [ प्रतियायी ] प्रतियास्यतीत्येवंशीलः प्रतियायी । 'अजातेः शीले' (५/१/१५४) णिन्प्र० →इन् । 'आत ऐ: कृञ्ञ' (४|३|५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । प्रथमा सि । 'इन्- हन्' ० (१।४।८७) दीर्घः । ‘दीर्घङ्याब्’० (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः ' (२।१।९१) नलुक् । → [प्रबोधी ] 'बुधि ज्ञाने' (१२६२) बुध् । प्रकर्षेण भोत्स्यत इत्येवंशीलः प्रबोधी । 'अजाते: शीले' (५।१।१५४) णिन्प्र० → इन् । ‘लघोरुपान्त्यस्य ' ( ४।३।४) गु० ओ । प्रथमा सि । इन्- हन्' ० (१।४।८७) दीर्घः । 'दीर्घङ्याब्’० (१।४।४५) सिलुक् । ‘नाम्नो नोऽनन: ' (२|१|९१) नलुक् । Jain Education International For Private Personal Use Only = www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy