________________
पञ्चमाध्यायस्य द्वितीयः पादः॥
१८७
बहुलवचनात् प्रायः संज्ञाशब्दाः, केचित्त्वसंज्ञाशब्दा इति अनुक्ता अपि प्रत्यया भवन्ति । [ऋफिडः ] 'ऋफ हिंसायाम्'(१३७९) ऋफ् । ऋफति । मतान्तरेऽनेनैव इडप्र० । तथा सति विहिता उणादयः क्वचिद् भूतेऽपि दृश्यन्ते[भस्म ] भसक् भर्त्सन-दीप्त्योः ' इति सौत्रो धातुः भस् । भसितं तदिति भस्म । 'मन्' (उणा० ९११) मन्प्र० ।
[कषिः] 'कष हिंसायाम्' (५०७) कष् । कषितोऽसौ कषिः । 'कृ-श-कुटि-ग्रहि-खन्यणि-कष्यलि-पलि-चरिवसि-गण्डिभ्यो वा' (उणा० ६१९) इप्र० ।
[तनि: ] 'तनूयी विस्तारे' (१४९९) तन् । ततोऽसौ तनिः । अनेन इप्र० ।
[वर्त्म ] 'वृतूङ् वर्त्तने' (९५५) वृत् । वृत्तं तदिति वर्त्मन् । 'मन्' (उणा० ९११) मन्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[चर्म ] 'चर भक्षणे च' (४१०) चर् । चरितं तदिति चर्म । 'मन्' (उणा० ९११) मन्प्र० । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[अप्सरसः] अप् 'सं गतौ' (२५) सृ । अद्भ्यः सरन्ति = अप्सरसः । 'आपोऽपाप्ताप्सराब्जाश्च' (उणा० ९६४) अस्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । प्रथमा जस् ।
उक्तं
च -
संज्ञासु धातुरूपाणि, प्रत्ययाश्च ततः परे । कार्यानुबन्धोपपदं, विज्ञातव्यमुणादिषु ॥ १ ॥
नामसंज्ञासु विशिष्टा धातवस्तेभ्यः पराः प्रत्ययाश्च विज्ञातव्यास्तथा कार्यात् कार्यार्थं वा गुणप्रतिषेधादेरनुबन्धनिमित्तात् आ(अ)नुबन्धो विज्ञातव्यः, उपसर्गादिकं बहुलाधिकारात् ज्ञेयम् ॥छ।।
बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधि(धे)श्च तदूह्यं नि(नै)गम-रूढिभवं हि सुसाधु ॥ २ ॥ नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्थं, प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥ ३ ॥
॥ मुद्रितविभागसूचिः ॥
अध्यायः
२/२
भाग-१ भाग-२ भाग-३ भाग-४
अध्यायः
२/१ ३/१ ४/१ ४/४
४/२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org