SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ १८३ [तूर्णः] 'जित्वरिष् सम्भ्रमे' (१०१०) त्वर् । त्वरते = तूर्णः । अनेन क्तप्र० → त । 'मव्यवि-श्रिवि-ज्वरित्वरेरुपान्त्येन' (४।१।१०९) वस्य ऊट → ऊ । 'रदादमूर्च्छ-मदः'० (४।२।६९) तस्य न० । 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । सुप्तः ] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै'० (२।३।९८) स्वप् । स्वपिति = सुप्तः । अनेन क्तप्र० → त । 'स्वपेर्यङ्डे च' (४।१।८०) वृत् व० → उ० । [भीतः ] 'बिभीक् भये' (११३२) भी । बिभेति = भीतः । अनेन क्तप्र० → त । [इद्धः] 'बिइन्धैपि दीप्तौ' (१४९८) इन्ध् । इन्धे = इद्धः । अनेन क्तप्र० → त । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) तस्य ध० । तृतीयस्तृतीय-चतुर्थे (१।३।४९) ध० → द० । [ तृषितः ] 'ञितृषच् पिपासायाम्' (१२१२) तृष् । तृष्यते = तृषितः । अनेन क्तप्र० → त । 'स्ताद्यशितोत्रोणादेरिट्' (४।४।३२) इट् । [फुल्लः ] 'फल निष्पत्तौ' (४२८) फल् ('त्रिफला विशरणे' (४१४) फल्) । फलतीति । अनेन क्तप्र० → त । 'अनुपसर्गाः क्षीबोल्लाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्ला:' (४।२।८०) "फुल्ल"निपातः । शीला(ल्या)दिः - शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो रुष्टो रुषित आशितः ॥ १ ॥ [शीलितः] 'शीलण उपधारणे' (१९१३) शील् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । शीलयतीति शीलितः । अनेन क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'सेट्क्तयोः' (४।३।८४) णिलुक्। [रक्षितः] 'रक्ष पालने' (५६७) रक्ष् । रक्ष्यते = रक्षितः । अनेन क्तप्र० → त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [क्षान्तः] 'क्षमौच सहने' (१२३५) क्षम् । क्षाम्यति = क्षान्तः । अनेन क्तप्र० →त । 'अहन्पञ्चमस्य क्वि-क्ङिति' (४।१।१०७) दीर्घः । 'म्नां धुडवर्ग'० (१।३।३९) म० → न० । [आक्रुष्टः ] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश्, आयूर्व० । आक्रुश्यति(ते) = आक्रुष्टः । अनेन क्तप्र० → त । 'यज-सृज-मृज-राज-भ्राज'० (२१८७) श० → ष० । 'तवर्गस्य (१।३।६०) त० → ट० । [जुष्टः ] 'जुषैति प्रीति-सेवनयोः' (१४७२) जुष् । जुष्यते = जुष्टः । अनेन क्तप्र० → त । 'तवर्गस्य श्चवर्ग'. (१।३।६०) त० → ट० । [उद्यतः] 'यमूं उपरमे' (३८६) यम्, उत्पूर्व० । उद्यच्छति = उद्यतः । अनेन क्तप्र० → त । 'यमि-रमि-नमिगमि-हनि' ० (४।२।५५) मलुक् । [संयतः] 'यमूं उपरमे' (३८६) यम्, सम्पूर्व० । संयम्यते = संयतः । अनेन क्तप्र० → त । 'यमि-रमि-नमिगमि-हनि'० (४।२।५५) मलुक् । [शयितः] 'शीङ् स्वप्ने (११०५) शी । शेते = शयितः । अनेन क्तप्र० → त । "स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy