SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [कारकः] 'डुकृंग् करणे' (८८८) कृ । करोतीति । 'णक-तृचौ' (पाश४८) णकप्र० →>> अक । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० आर् । प्रथमा सि । [कर्ता ] कृ । करोतीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । प्रथमा सि । ऋदुशनस्- पुरुदंशोऽनेहश्च सेर्डा : ' (१।४।८४) सि० डा० आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । [ पचः ] 'डुपचष् पाके' (८९२) पच् । पचतीति । 'लिहादिभ्यः' (५/१/५०) अच्प्र० अ । प्रथमा सि । 'सो रुः' (२|१/७२) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्ग: । [ नन्दनः] 'टुनदु समृद्धौ' (३१२) नद् । 'उदितः स्वरान्नोऽन्तः' (४|४|९८) नन्द् । नन्दन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे ‘णिग्’ (३।४।२०) णिग्प्र० । नन्दयतीति । 'नन्द्यादिभ्योऽनः' (५/१/५२) अनप्र० । 'णेरनिटि' (४|३|८३) ग्लोपः । प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । 'रः पदान्ते० ' (१।३।५३) विसर्गः ॥छ | ३ व्याप्ये घुर- केलिम - कृष्टपच्यम् ॥ ५।१४ ॥ [ व्याप्ये] व्याप्य सप्तमी ङि । [ घुरकेलिमकृष्टपच्यम् ] घुरश्च केलिमश्च कृष्टपच्यश्च = घुरकेलिमकृष्टपच्यम् । [भगुरं काष्ठम् ] 'भञ्जोंप् आमर्दने' (१४८६) भज् । भनक्ति काष्ठं देवदत्तः, स एवं विवक्ष्यते नाहं भनज्मि, किन्तु भज्यते काष्ठं स्वयमेवेत्येवंशीलम् । 'भञ्जि - भासि - मिदो घुर: ' ( ५|२|७४) घुरप्र० उर । तेऽनिश्च - जो: क-गौ घिति' (४|१|१११) ज०ग० । सि-अम् । [ भिदुरः कुशूल: ] 'भिपी विदारणे' (१४७७) भिद् । भिनत्ति कुसू (शू) लं देवदत्तः, स एवं विवक्ष्यते नाहं भिनद्भि, किन्तु भिद्यते स्वयमेवेत्येवंशीलः । 'वेत्ति - च्छिद - भिदः कित्' (५/२/७५) घुरप्र० → उर । [ छिदुरा रज्जुः ] 'छिपी द्वैधीकरणे' (१४७८) छिद् । छिनत्ति रज्जुं देवदत्तः, स एवं विवक्ष्यते नाहं छिनमि, किन्तु छिद्यते स्वयमेवेत्येवंशीलः । 'वेत्ति - च्छिद - भिदः कित्' (५/२/७५) घुरप्र० उर। 'आत्' (२|४|१८) आप्प्र० → आ । [ भासुरः ] 'भासि दीप्तौ' (८४६) भास् । भासत इत्येवंशीलः । 'भञ्जि - भासि-मिदो घुरः' (५/२/७४) घुरप्र० → उर । [ मेदुर: ] 'ञिमिदाच् स्नेहने' (१९८०) मिद् । मेद्यतीत्येवंशील: । 'भञ्जि - भासि - मिदो घुर: ' (५/२/७४) घुरप्र० 'उर । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [ विदुरः ] 'विदक् ज्ञाने । (१०९९) विद् । वेत्तीत्येवंशीलः । 'वेत्ति - च्छिद - भिदः कित्' (५/२/७५) घुरप्र० उर । सर्वत्र प्रथमा सि । 'सो रुः' (२।१।७२) स०र० । 'र: पदान्ते० ' (१।३।५३) विसर्ग: । [ पचेलिमा माषाः] 'डुपचींष् पाके' (८९२) पच् । पचति माषान् देवदत्तः, स एवं विवक्षते नाहं पचामि, किन्तु पच्यते (न्ते) स्वयमेव । 'विहा - विशा - पचि - भिद्यादेः केलिमः' (उणा० ३५४) केलिमप्र० एलिम । प्रथमा जस् । Jain Education International [ भिदेलिमास्तण्डुलाः ] 'भिपी विदारणे' (१४७७) भिद् । भिनत्ति तण्डुलान् देवदत्तः, स एवं विवक्षते नाहं भिनमि, किन्तु भिद्यते (न्ते) स्वयमेव = भिदेलिमाः । 'विहा - विशा-पचि - भिद्यादेः केलिमः' (उणा० ३५४) केलिमप्र० -> एलिम । प्रथमा जस् । For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy