SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ १८१ [सेत्रम् ] 'पिंग्ट् बन्धने' (१२८७) षि । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः (२।३।९८) सि । सिनोत्यनेन = सेत्रम् । अनेन त्रटप्र० → त्र० । 'नामिनो' (४।३।१) गु० ए । [सेक्त्रम् ] 'षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिन् । सिञ्चत्यनेन = सेक्त्रम् । अनेन त्रप्र० →त्र । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'च-जः क-गम्' (२।१८६) च० → क० ।। __ [ मेढ़म् ] 'मिहं सेचने' (५५१) मिह । मेहत्यनेन = मेढ़म् । अनेन त्रटप्र० → त्र । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'हो धुट्-पदान्ते' (२।१८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।११७९) त० → ध० । 'तवर्गस्य श्चवर्ग'० (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः । सि-अम् । [पत्रम् ] 'पत्लु गतौ' (९६२) पत् । पतत्यनेन = पत्रम् । अनेन त्रटप्र० → त्र। [पात्री] 'पां पाने' (२) पा । पिबति नीरादिकमनेन = पात्री । अनेन ट्प्र० → त्र । 'अणजेयेकण्'० (२।४।२०) ङी। [नद्धः, नद्धी] 'णहीच बन्धने' (१२८५) ण । 'पाठे धात्वादे'० (२।३।९७) नह । नात्यनेन - अनया वा = नद्धः-नधी । अनेन त्रटप्र० →त्र । 'नहाहोर्ध-तौ' (२।१८५) हस्य ध० । 'अधश्चतुर्थात् तथोर्धः' (२।११७९) तस्य ध० । 'तृतीयस्तृतीय-चतुर्थे (१।३।४९) धस्य द० । 'अणजेयेकण्'० (२।४।२०) ङी ॥छ।। __ हल-क्रोडाऽऽस्ये पुवः ॥५।२।८९ ॥ [हलक्रोडाऽऽस्ये ] हलश्च क्रोडश्च = हलक्रोडौ, हलक्रोडयोरास्यम् = हलक्रोडाऽऽस्यम्, तस्मिन् । [पुवः ] पुत् पञ्चमी ङसि । (पू) पञ्चमी ङसि । 'धातोरिवर्णो' ० (२।१।५०) उव् । [पोत्रम् ] 'पूगश् पवने (१५१८) पू । 'पूङ् पवने' (६००) पू । पुनाति-पवते वा अनेन = पोत्रम् । अनेन चटप्र० → त्र । 'नामिनो'० (४।३।१) गु० ओ । हलस्य सूकरस्य च मुखमुच्यते ॥छ।। दशेस्त्रः ॥५।२।९० ॥ [दंशेः] दंशि पञ्चमी ङसि ।। [त्रः] त्र प्रथमा सि । 'सो रुः' (२०७२) स० २र० । [दंष्ट्रा] 'दंशं दशने' (४९६) दंश् । दशत्यनया = दंष्ट्रा । अनेन त्रप्र० । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रस्चपरिव्राजः श: षः' (२।११८७) श० → ष० । 'तवर्गस्य श्चवर्ग ष्टवर्गाभ्यां'० (११३६०) त्र० → ट्र० । 'आत्' (२।४।१८) आप्प्र० → आ । प्रत्ययान्तकरणमाबर्थम् ॥छ।। धात्री ॥५।२।९१ ॥ [ धात्री ] धात्री अखण्डमिदम् । प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । [धात्री स्तनदायिनी ] 'ट्धे पाने' (८) धे । 'आत् सन्ध्यक्षरस्य' (४।२।१) धा । धयति-पाययति स्तनं बालकमिति धात्री । अनेन निपात्यते । स्तनदायिनी उच्यते । [धात्री आमलकी] 'इधांगक धारणे च' (११३९) धा । दधाति तां भैषज्यार्थमिति धात्री । अनेन निपात्यते । आमलकी उच्यते ॥छ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy