SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्डिकायां । [धवित्रम् ] 'धूग्ट् कम्पने' (१२९१) धू । धुनोत्यनेन । मतान्तरेऽनेनैव इत्रप्र० । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । सि-अम् । [सवित्रम् ] 'घूत् प्रेरणे' (१३३२) षू । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सू । सुवत्यनेन = सवित्रम् । अनेन इत्रप्र० । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । निरनुबन्धनिर्देशात् धूग्-सूङोर्न भवति । [खनित्रम् ] ‘खनूग् अवदारणे' (९१३) खन् । खनत्यनेन = खनित्रम् । अनेन इत्रप्र० । [चरित्रम् ] 'चर भक्षणे च' (४१०) चर् । चरत्यनेन = चरित्रम् । अनेन इत्रप्र० । [सहित्रम्] 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सह् । सहतेऽनेन = सहित्रम् । अनेन इत्रप्र० । [अरित्रम् ] 'ऋ प्रापणे च' (२६) ऋ । 'ऋक् गतौ' (११३५) ऋ । ऋच्छति इयर्ति वाऽनेन = अरित्रम् । अनेन इत्रप्र० । 'नामिनो'० (४।३।१) गु० अर् । [वहित्रम् ] 'वहीं प्रापणे' (९९६) वह् । वहत्यनेन = वहित्रम् । मतान्तरे अनेन इत्रप्र० । सि-अम् ॥छ। नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट् ॥५।२।८८ ॥ [नीदावशसूयुयुजस्तुतुदसिसिचमिहपतपानहः ] नीश्च दाव् च शसूश्च युश्च युजश्च स्तुश्च तुदश्च सिश्च सिचश्च मिहश्च पतश्च पाश्च न च = नीदावशसूयुयुजस्तुतुदसिसिचमिहपतपान, तस्मात् । [त्रट्] त्रट प्रथमा सि । [नेत्रम् ] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेो नः' (२।३।९७) नी । नयत्यनेन = नेत्रम् । अनेन त्रटप्र० →त्र । 'नामिनो'० (४।३।१) गु० ए। [दात्रम् ] 'दांवक् लवने' (१०७०) दा । दात्यनेन = दात्रम् । अनेन त्रट्प्र० → त्र । [शस्त्रम् ] 'शसू हिंसायाम्' (५४९) शस् । शसति - हिनस्त्यनेन = शस्त्रम् । अनेन त्रटप्र० → त्र । [योत्रम् ] 'युक् मिश्रणे' (१०८०) यु । यौत्यनेन = योत्रम् । अनेन त्रटप्र० → त्र । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ। [योकत्रम् ] 'युजूपी योगे' (१४७६) युज् । युनक्त्यनेन = योक्त्रम् । अनेन त्रटप्र० → त्र । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः (१।३।५०) ग० → क० । [स्तोत्रम् ] 'ष्टुंग्क् स्तुतौ' (११२४) । ष्टु । 'ष: सोऽष्ट्यै'० (२।३।९८) स्तु । 'निमित्ताभावे'० (न्या० सं० वक्ष० (१)/सूत्र (२९) स्तु । स्तौत्यनेन = स्तोत्रम् । अनेन त्रटप्र० → त्र । 'नामिनो'० (४।३।१) गु० ओ। [तोत्रम्] 'तुदीत् व्यथने' (१३१५) तुद् । तुदति-व्यथति प्राणिगणमनेन = तोत्रम् । अनेन त्रटप्र० → त्र । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy