SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ [प्रभुः स्वामी ] प्रभवतीति प्रभुः - स्वामी । सर्वत्र अनेन डुप्र० → उ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) ऊलुक् ॥छ।। पुव इत्रो दैवते ॥५।२।८५ ॥ [पुवः ] पू पञ्चमी ङसि । 'धातोरिवर्णोवर्णस्येयुत्'० (२।१।५०) उव् । [इत्रः] इत्र प्रथमा सि । [दैवते ] देव एव = देवता । 'भावे त्व-तल्' (७१।५५) तल्प्र० → त० । 'आत्' (२।४।१८) आप्प्र० → आ । देवतैव = दैवता । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अणप्र० → अ । 'वृद्धि: स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः, तस्मिन् । [पवित्रोऽर्हन् ] 'पूङ् पवने' (६००) पू । 'पूग्श् पवने' (१५१८) पू वा । पवते-पुनाति वा = पवित्रः । अनेन इत्रप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव्, अर्हन्, स मां पुनातु ॥छ।। ऋषि-नाम्नोः करणे ॥५।२।८६ ॥ [ऋषिनाम्नोः] ऋषिश्च नाम च = ऋषिनाम्नी, तयोः = ऋषिनाम्नोः । सप्तमी ओस् । वैषयिके अधिकरणे सप्तमी। [करणे ] करण सप्तमी ङि । [ पवित्रोऽयमृषिः] पूयतेऽनेनेति पवित्रोऽयमृषिः । अनेन इत्रप्र० । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । नाम्नि - [दर्भः पवित्रः] पूयतेऽनेनेति पवित्रो दर्भः । अनेन इत्रप्र० । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव' (१।२।२४) अव् । [बर्हिः पवित्रम् ] पूयतेऽनेनेति पवित्रं बर्हिः । अनेन इत्रप्र० । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [ओघोपकरणं पवित्रम् ] 'वहीं प्रापणे' (९९६) वह् । वहति-प्रापयति निरवद्यां सर्वसावधमिति । 'अच्' (५।१।४९) अच्प्र० → अ० । न्य ङ्कद्ग - मेघाऽऽदयः (४।१।११२) ओघनिपातः । यद्वा "उंङ् शब्दे' (५८९) उ । ऊयते - शब्द्यते उपादेयतया लोकोत्तरे धर्मे इति ओघः, ओघ एव उपकरणं = ओघोपकरणम् । पवित्रं पूर्ववत् । दर्भादीनां पवित्रमिति संज्ञा ॥छ।। लू-धू-सू-खन-चर-सहा-ऽर्तेः ॥५।२।८७ ॥ [लूधूसूखनचरसहाऽर्तेः ] लूश्च धूश्च सूश्च खनश्च चरश्च सहश्च अर्तिश्च = लूधूसूखनचरसहाऽति, तस्मात् । [लवित्रम् ] 'लूग्श् छेदने' (१५१९) लू । लुनात्यनेन = लवित्रम् । अनेन इत्रप्र० । 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (४।३।१) अव् । [धुवित्रम् ] धूत् विधूनने' (१४३०) धू । धुवत्यनेन = धुवित्रम् । अनेन इत्रप्र० । कुटादित्वात् ङिद्वत्, तेन न गुणः । 'धातोरिवर्णोवर्णस्येयुव'० (२।१।५०) उव् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy